Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 39 / Mantra 4

13 Mantra
39/4
Devata- श्रीर्देवता Rishi- दीर्घतमा ऋषिः Chhand- निचृद्बृहती Swara- मध्यमः
Mantra with Swara
मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय।प॒शू॒ना रू॒पमन्न॑स्य॒ रसो॒ यशः॒ श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑॥४॥

मन॑सः। काम॑म्। आकू॑ति॒मित्याऽकू॑तिम्। वाचः। स॒त्यम्। अ॒शी॒य॒ ॥ प॒शू॒नाम्। रू॒पम्। अन्न॑स्य। रसः॑। यशः॑। श्रीः। श्र॒य॒ता॒म्। मयि॑। स्वाहा॑ ॥४ ॥

Mantra without Swara
मनसः काममाकूतिञ्वाचः सत्यमशीय । पशूनाँ रूपमन्नस्य रसो यशः श्रीः श्रयताम्मयि स्वाहा ॥

मनसः। कामम्। आकूतिमित्याऽकूतिम्। वाचः। सत्यम्। अशीय॥ पशूनाम्। रूपम्। अन्नस्य। रसः। यशः। श्रीः। श्रयताम्। मयि। स्वाहा॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(मनसः) अन्तःकरणस्य (कामम्) इच्छापूर्तिम् (आकूतिम्) उत्साहम् (वाचः) वाण्याः (सत्यम्) सत्सु साधु वचः (अशीय) प्राप्नुयाम् (पशूनाम्) गवादीनाम् (रूपम्) सुन्दरं स्वरूपम् (अन्नस्य) अत्तुमर्हस्यौदनादेः (रसः) मधुरादिः (यशः) कीर्तिः (श्रीः) शोभनैश्वर्यं च (श्रयताम्) सेवताम् (मयि) जीवात्मनि (स्वाहा) सत्यया क्रियया॥४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सुविज्ञानोत्साहसत्यवचनैर्मृतानि शरीराणि विधिना दाहयन्ति, ते पशून् प्रजाधनधान्यादीनि पुरुषार्थेन लभन्ते॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथाहं स्वाहैवं पूर्वपरोक्तप्रकारेण मृतानि शरीराणि दग्ध्वा मनसो वाचश्च सत्यं काममाकूतिं पशूनां रूपमशीय। यथा मय्यन्नस्य रसो यशः श्रीः श्रयतां तथैवं कृत्वा यूयमेनं प्राप्नुत, एता युष्मासु श्रयन्ताम्॥४॥