Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 6

28 Mantra
38/6
Devata- अश्विनौ देवते Rishi- दीर्घतमा ऋषिः Chhand- निचृदत्यष्टिः Swara- गान्धारः
Mantra with Swara
गा॒य॒त्रं छन्दो॑ऽसि॒ त्रैष्टु॑भं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑ यच्छामि। इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घर्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट्। स्वाहा॒ सूर्य्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये॥६॥

गा॒य॒त्रम्। छन्दः॑। अ॒सि॒। त्रैष्टु॑भम्। त्रैस्तु॑भ॒मिति॒ त्रैस्तु॑भम्। छन्दः॑। अ॒सि॒। द्यावा॑पृथि॒वीभ्या॑म्। त्वा॒। परि॑। गृ॒ह्णा॒मि॒। अ॒न्तरि॑क्षेण। उप॑। य॒च्छा॒मि॒ ॥ इन्द्र॑। अ॒श्वि॒ना॒। मधु॑नः। सा॒र॒घस्य॑। घ॒र्मम्। पा॒त॒। वस॑वः। यज॑त। वाट् ॥ स्वाहा॑। सूर्य॑स्य। र॒श्मये॑। वृ॒ष्टि॒वन॑य॒ इति॑ वृष्टि॒ऽवन॑ये ॥६ ॥

Mantra without Swara
गायत्रञ्छन्दो सि त्रैष्टुभञ्छन्दोसि द्यावापृथिवीभ्यान्त्वा परिगृह्णाम्यन्तरिक्षेणोपयच्छामि । इन्द्राश्विना मधुनः सारघस्य घर्मम्पात वसवो यजत वाट् । स्वाहा सूर्यस्य रश्मये वृष्टिवनये ॥

गायत्रम्। छन्दः। असि। त्रैष्टुभम्। त्रैस्तुभमिति त्रैस्तुभम्। छन्दः। असि। द्यावापृथिवीभ्याम्। त्वा। परि। गृह्णामि। अन्तरिक्षेण। उप। यच्छामि॥ इन्द्र। अश्विना। मधुनः। सारघस्य। घर्मम्। पात। वसवः। यजत। वाट्॥ स्वाहा। सूर्यस्य। रश्मये। वृष्टिवनय इति वृष्टिऽवनये॥६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(गायत्रम्) गायत्रीछन्दसा प्रकाशितम् (छन्दः) स्वतन्त्राह्लादकरमिव (असि) (त्रैष्टुभम्) त्रिष्टुभा व्याख्यातमर्थजातम् (छन्दः) स्वतन्त्रमिव (असि) (द्यावापृथिवीभ्याम्) सूर्य्यभूमीभ्याम् (त्वा) त्वाम् (परि) सर्वतः (गृह्णामि) स्वीकरोमि (अन्तरिक्षेण) उदकेन सह प्रतिज्ञाताम् (उप, यच्छामि) गृह्णामि (इन्द्र) परमैश्वर्य्ययुक्त (अश्विना) प्राणाऽपानाविव कार्यसाधकोै (मधुनः) मधुरादिगुणयुक्तस्य (सारघस्य) सरघाभिर्मधुमक्षिकाभिर्निर्मितस्य (घर्मम्) सुखवर्षकं यज्ञम् (पात) रक्षत (वसवः) पृथिव्यादय इव प्रथमविद्याकल्पाः (यजत) सङ्गच्छध्वम् (वाट्) सुष्ठु (स्वाहा) सत्यया क्रियया (सूर्य्यस्य) (रश्मये) शोधनाय (वृष्टिवनये) वृष्टेः संविभाजकाय॥६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा शब्दानामर्थैः सह वाच्यवाचकसम्बन्धः सूर्य्येण सह पृथिव्या रश्मिभिस्सह वृष्टेर्यज्ञेन सह यजमानस्यर्त्विजा चास्ति, तथैव विवाहितयोः स्त्रीपुरुषयोः सम्बन्धो भवतु॥६॥
Subject
पुनः स्त्रीपुरुषयोः कीदृशः सम्बन्धः स्यादित्याह॥
Anvaya
हे इन्द्र! यथा त्वं गायत्रं छन्द इव हृद्यां स्त्रियं प्राप्तवानसि, त्रैष्टुभं छन्दः इव प्रशंसितां लब्धवानसि, तथाऽहं त्वा दृष्ट्वा द्यावापृथिवीभ्यां प्रियां स्त्रियं परिगृह्णाम्यन्तरिक्षेणोपयच्छामि। हे अश्विना! स्त्रीपुरुषौ युवां तथैव वर्त्तेयाथाम्। हे वसवो विद्वांसो! यूयं स्वाहा मधुनः सारघस्य घर्मं पात सूर्य्यस्य वृष्टिवनये रश्मये वाट् यजत॥६॥