Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 5

28 Mantra
38/5
Devata- वाग्देवता Rishi- दीर्घतमा ऋषिः Chhand- निचृदतिजगती Swara- निषादः
Mantra with Swara
यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॑।येन॒ विश्वा॒ पुष्य॑सि॒ वार्य्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः।उ॒र्वन्तरि॑क्ष॒मन्वे॑मि॥५॥

यः। ते॒। स्तनः॑। श॒श॒यः। यः। म॒यो॒भूरिति॑ मयः॒ऽभूः। यः॒। र॒त्न॒धा इति॑ रत्न॒ऽधाः। व॒सु॒विदिति॑ वसु॒ऽवित्। यः। सु॒दत्र॒ इति॑ सु॒ऽदत्रः॑ ॥ येन॑। विश्वा॑। पुष्य॑सि। वार्य्या॑णि। सर॑स्वति। तम्। इ॒ह। धात॑वे। अ॒क॒रित्य॑कः। उ॒रु। अ॒न्तरि॑क्षम्। अनु॑। ए॒मि॒ ॥५ ॥

Mantra without Swara
यस्ते स्तनः शशयो यो मयोभूर्या रत्नधा वसुविद्यः सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वत्तमिह धातवे कः । उर्वन्तरिक्षमन्वेमि ॥

यः। ते। स्तनः। शशयः। यः। मयोभूरिति मयःऽभूः। यः। रत्नधा इति रत्नऽधाः। वसुविदिति वसुऽवित्। यः। सुदत्र इति सुऽदत्रः॥ येन। विश्वा। पुष्यसि। वार्य्याणि। सरस्वति। तम्। इह। धातवे। अकरित्यकः। उरु। अन्तरिक्षम्। अनु। एमि॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) (ते) तव (स्तनः) दुग्धाधारमङ्गम् (शशयः) शेते यस्मिन् सः (यः) (मयोभूः) यो मयः सुखं भावयति सः (यः) (रत्नधाः) यो रत्नानि दधाति सः (वसुवित्) यो वसूनि धनानि विन्दति प्राप्नोति सः (यः) (सुदत्रः) शोभनं दत्रं दानं यस्य सः (येन) (विश्वा) समग्राणि (पुष्यसि) (वार्याणि) वरितुमर्हाणि (सरस्वति) बहुविज्ञानयुक्ते (तम्) (इह) अस्मिन् संसारे (धातवे) धातुम् (अकः) कुर्य्याः (उरु) बहु (अन्तरिक्षम्) आकाशम् (अनु) (एमि) प्राप्नोमि॥५॥
Essence
यदि स्त्री न स्यात् तर्हि बालकानां पालनमप्यशक्यं भवेत्। यया पुरुषो बहुसुखं येन स्त्री च पुष्कलं सुखमाप्नुयात् तौ द्वावितरेतरं विवहेताम्॥५॥
Subject
पुनः स्त्रीपुरुषौ किं कुर्य्यातामित्याह॥
Anvaya
हे सरस्वति स्त्रि! यस्ते शशयः स्तनो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा वार्य्याणि पुष्यसि, तमिह धातवेऽकः। तेनाहमुर्वन्तरिक्षमन्वेमि॥५॥