Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 28

28 Mantra
38/28
Devata- यज्ञो देवता Rishi- दीर्घतमा ऋषिः Chhand- स्वराड्धृतिः Swara- ऋषभः
Mantra with Swara
पय॑सो॒ रेत॒ऽआभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ समा॑म्।त्विषः॑ सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः।इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ऽ उप॑हूत॒ऽ उप॑हूतस्य भक्षयामि॥२८॥

पय॑सः। रेतः॑। आभृ॑त॒मित्याऽभृ॑तम्। तस्य॑। दोह॑म्। अ॒शी॒म॒हि॒। उत्त॑रामुत्तरा॒मित्युत्त॑राम्ऽउत्त॑राम्। समा॑म्। त्विषः॑। सं॒वृगिति॑ स॒म्ऽवृक्। क्रत्वे॑। दक्ष॑स्य। ते॒। सु॒षु॒म्णस्य॑। सु॒सु॒म्नस्येति॑ सुऽसु॒म्नस्य॑। ते॒। सु॒षु॒म्ण॒। सु॒सु॒म्नेति॑ सुऽसुम्न। अ॒ग्नि॒हु॒त इत्य॑ग्निऽहु॒तः ॥ इन्द्र॑पीत॒स्येतीन्द्रऽपीतस्य। प्र॒जाप॑तिभक्षित॒स्येति॑ प्र॒जाप॑तिऽभक्षितस्य। मधु॑मत॒ इति॒ मधु॑ऽमतः। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒ ॥२८ ॥

Mantra without Swara
पयसो रेतऽआभृतन्तस्य दोहमशीमह्युत्तरामुत्तराँ समाम् । त्विषः सँवृक्क्रत्वे दक्षस्य ते सुषुवाणस्य ते सुषुम्णाग्निहुतः । इन्द्रपीतस्य प्रजापतिभक्षितस्य मधुमतऽउपहूतऽउपहूतस्य भक्षयामि ॥

पयसः। रेतः। आभृतमित्याऽभृतम्। तस्य। दोहम्। अशीमहि। उत्तरामुत्तरामित्युत्तराम्ऽउत्तराम्। समाम्। त्विषः। संवृगिति सम्ऽवृक्। क्रत्वे। दक्षस्य। ते। सुषुम्णस्य। सुसुम्नस्येति सुऽसुम्नस्य। ते। सुषुम्ण। सुसुम्नेति सुऽसुम्न। अग्निहुत इत्यग्निऽहुतः॥ इन्द्रपीतस्येतीन्द्रऽपीतस्य। प्रजापतिभक्षितस्येति प्रजापतिऽभक्षितस्य। मधुमत इति मधुऽमतः। उपहूत इत्युपऽहूतः। उपहूतस्येत्युपऽहूतस्य। भक्षयामि॥२८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पयसः) उदकस्य दुग्धस्य वा (रेतः) वीर्य्यम् (आभृतम्) समन्तात् पुष्टं धृतं वा (तस्य) (दोहम्) प्रपूर्त्तिम् (अशीमहि) प्राप्नुयाम (उत्तरामुत्तराम्) आगमिनीमागामिनीम् (समाम्) वेलाम् (त्विषः) प्रदीप्तस्य (संवृक्) यः संवृक्ते सः (क्रत्वे) प्रज्ञायै (दक्षस्य) बलस्य (ते) तव (सुषुम्णस्य) शोभनं सुम्नं सुखं यस्य (ते) तव (सुषुम्ण) शोभनसुखयुक्त! (अग्निहुतः) अग्नौ हुतं प्रक्षिप्तं येन (इन्द्रपीतस्य) सूर्य्येण जीवेन वा पीतस्य (प्रजापतिभक्षितस्य) प्रजास्वामिनेश्वरेण सेवितस्य भक्षितस्य वा (मधुमतः) मधुरादिगुणस्य (उपहूतः) उप समीपे कृताऽऽह्वानः (उपहूतस्य) समीपमाहूतस्य (भक्षयामि)॥२८॥
Essence
मनुष्यैः सदा वीर्य्यं वर्द्धनीयं विद्यादिगुणा धर्त्तव्याः प्रतिदिनः सुखं वर्द्धनीयं यथा स्वस्य सुख-मिच्छेयुस्तथाऽन्येषामप्याकाङ्क्षेरन्निति॥२८॥
Subject
पुनर्मनुष्याः किं किं कुर्य्युरित्याह॥
Anvaya
हे सुषुम्ण! यथा त्वया यस्य पयसो रेत आभृतं तस्य दोहमुत्तरामुत्तरां समां वयमशीमहि, तस्य ते क्रत्वे त्विषो दक्षस्य त आभृतमशीमहि, सुषुम्णस्येन्द्रपीतस्य प्रजापतिभक्षितस्योपहूतस्य मधुमतः पयसो दोषान् संवृक् सन्नुपहूतोऽग्निहुतोऽहं भक्षयामि॥२८॥