Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 24

28 Mantra
38/24
Devata- सविता देवता Rishi- दीर्घतमा ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उद्व॒यन्तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ऽ उत्त॑रम्।दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥२४॥

उत्। व॒यम्। तम॑सः। परि॑। स्व᳖रिति॒ स्वः᳖। पश्य॑न्तः। उत्त॑र॒मित्यु॑त्ऽत॑रम् ॥ दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥२४ ॥

Mantra without Swara
उद्वयन्तमसस्परि स्वः पश्यन्तऽउत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

उत्। वयम्। तमसः। परि। स्वरिति स्वः। पश्यन्तः। उत्तरमित्युत्ऽतरम्॥ देवम्। देवत्रेति देवऽत्रा। सूर्य्यम्। अगन्म। ज्योतिः। उत्तममित्युत्ऽतमम्॥२४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (वयम्) (तमसः) अन्धकारात् (परि) वर्जने (स्वः) सुखम् (पश्यन्तः) (उत्तरम्) सर्वेभ्यःः पदार्थेभ्य उत्तरस्मिन् वर्त्तमानम् (देवम्) दिव्यगुणकर्मस्वभावम् (देवत्रा) देवेषु दिव्येषु पदार्थेषु (सूर्य्यम्) सवितृवत् प्रकाशमयम् (अगन्म) (ज्योतिः) सर्वस्य प्रकाशकम् (उत्तमम्) सर्वोत्कृष्टम्॥२४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विद्युदादिविद्यां प्राप्य परमात्मानं साक्षात् पश्येयुस्ते प्रकाशिताः सन्तः सुखमवाप्नुयुः॥२४॥
Subject
कीदृशो जनः सुखमाप्नुयादित्याह॥
Anvaya
हे मनुष्याः! यथा वयं यं तमसः पृथक् वर्त्तमानमुत्तरं देवत्रा देवमुत्तमं ज्योतिः सूर्यं पश्यन्तः सन्तः स्वः सुखं पर्युदगन्म, तथैव यूयमपि प्राप्नुत॥२४॥