Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 22

28 Mantra
38/22
Devata- यज्ञो देवता Rishi- दीर्घतमा ऋषिः Chhand- परोष्णिक् Swara- ऋषभः
Mantra with Swara
अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः।सꣳ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः॥२२॥

अचि॑क्रदत्। वृषा॑। हरिः॑। म॒हान्। मि॒त्रः। न। द॒र्श॒तः ॥ सम्। सूर्य्ये॑ण। दि॒द्यु॒त॒त्। उ॒द॒धिरित्यु॑द॒ऽधिः। नि॒धिरिति॑ नि॒ऽधिः ॥२२ ॥

Mantra without Swara
अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः । सँ सूर्येण दिद्युतदुदधिर्निधिः ॥

अचिक्रदत्। वृषा। हरिः। महान्। मित्रः। न। दर्शतः॥ सम्। सूर्य्येण। दिद्युतत्। उदधिरित्युदऽधिः। निधिरिति निऽधिः॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अचिक्रदत्) शब्दं कुर्वन् (वृषा) वर्षकः (हरिः) आशुगन्ता (महान्) सर्वेभ्यो ज्येष्ठः (मित्रः) सखा (न) इव (दर्शतः) द्रष्टव्यः (सम्) (सूर्य्येण) सवित्रा (दिद्युतत्) विद्योतते (उदधिः) उदकानि धीयन्ते यस्मिँस्तत् समुद्रोऽन्तरिक्षं वा (निधिः) निधीयन्ते पदार्थो यस्मिन् सः॥२२॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। हे मनुष्याः! यथा वृषभास्तुरङ्गाश्च शब्दायन्ते यथा सखा सखीन् प्रीतयति, तथैव सर्वैर्लोकैः सह वर्त्तमाना विद्युत् सर्वान् प्रकाशयति तां विजानीत॥२२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यो वृषा हरिर्महानचिक्रदन्मित्रो न दर्शतः सूर्येण सह उदधिर्निधिरिव संदिद्युतत् स एव विद्युद्रूपोऽग्निः सर्वैः संप्रयोज्यः॥२२॥