Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 20

28 Mantra
38/20
Devata- यज्ञो देवता Rishi- दीर्घतमा ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
चतुः॑स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथाः॒ स नो॑ वि॒श्वायुः॑ स॒प्रथाः॒ स नः॑ स॒र्वायुः॑ स॒प्रथाः॑।अप॒ द्वे॒षो॒ऽअप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम॥२०॥

चतुः॑स्रक्ति॒रिति॒ चतुः॑ऽस्रक्तिः। नाभिः॑। ऋ॒तस्य॑। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। वि॒श्वायु॒रिति॑ वि॒श्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑। सः। नः॒। स॒र्वायु॒रिति॑ स॒र्वऽआ॑युः। स॒प्रथा॒ इति॑ स॒ऽप्रथाः॑ ॥ अप॑। द्वेषः॑। अप॑। ह्वरः॑। अ॒न्यव्र॑त॒स्येत्य॒न्यऽव्र॑तस्य। स॒श्चि॒म॒ ॥२० ॥

Mantra without Swara
चतुःस्रक्तिर्नाभिरृतस्य सप्रथाः स नो विश्वायुः सप्रथाः स नः सर्वायुः सप्रथाः । अप द्वेषोऽअप ह्वरोन्यव्रतस्य सश्चिम ॥

चतुःस्रक्तिरिति चतुःऽस्रक्तिः। नाभिः। ऋतस्य। सप्रथा इति सऽप्रथाः। सः। नः। विश्वायुरिति विश्वऽआयुः। सप्रथा इति सऽप्रथाः। सः। नः। सर्वायुरिति सर्वऽआयुः। सप्रथा इति सऽप्रथाः॥ अप। द्वेषः। अप। ह्वरः। अन्यव्रतस्येत्यन्यऽव्रतस्य। सश्चिम॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(चतुःस्रक्तिः) चतुरस्रा (नाभिः) नाभिरिव (ऋतस्य) सत्यस्वरूपस्य (सप्रथा) विस्तारेण सह वर्त्तमानः (सः) (नः) अस्मान् (विश्वायुः) सर्वमायुर्यस्य (सप्रथाः) विस्तारेण सह वर्त्तमानः (सः) (नः) अस्मान् (सर्वायुः) सम्पूर्णजीवनम् (सप्रथाः) विस्तीर्णसुखः (अप) दूरीकरणे (द्वेषः) ये द्विषन्ति तान् (अप) (ह्वरः) ये ह्वरन्ति कुटिलं गच्छन्ति तान् (अन्यव्रतस्य) अन्येषां पालने व्रतं शीलं यस्य तस्य (सश्चिम) दूरे प्राप्नुयाम गमयेम वा॥२०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा प्राप्तरसा नाभी रसमुत्पाद्य सर्वान् शरीरावयवान् पुष्णाति, तथा सेविता विद्वांस उपासितः परमेश्वरश्च द्वेषं कुटिलतादिदोषांश्च निवार्य्य सर्वान् जीवान् संरक्षतीति मत्वा तेषां तस्य च सततं सेवा कार्य्या॥२०॥
Subject
पुनर्मनुष्या किं कुर्युरित्याह॥
Anvaya
हे मनुष्याः! यथा चतुःस्रक्तिर्नाभिरिव सप्रथा अन्यव्रतस्यर्त्तस्य परमात्मनः सेवां करोति, स सप्रथा विश्वायुर्नोऽस्मान् बोधयतु, स सप्रथाः सर्वायुर्नः परमेश्वरविद्यां ग्राहयतु, येन वयं द्वेषोऽपसश्चिम, ह्वरोऽप सश्चिम, तथा यूयमपि कुरुत॥२०॥