Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 16

28 Mantra
38/16
Devata- रुद्रादयो देवताः Rishi- दीर्घतमा ऋषिः Chhand- भुरिगतिधृतिः Swara- षड्जः
Mantra with Swara
स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योतिः॑।अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑।रात्रिः॑ के॒तुना जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑।मधु॑ हु॒तमिन्द्र॑तमेऽअ॒ग्नाव॒श्याम॑ ते देव घर्म॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः॥१६॥

स्वाहा॑। रु॒द्राय॑। रु॒दाय॑। रु॒द्रहू॑तये॒ इति॑ रुद्र॒ऽहू॑तये। स्वाहा॑। सम्। ज्योति॑षा। ज्योतिः॑। अह॒रित्यहः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑ सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑। रात्रिः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑ सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑। रात्रिः॑। के॒तुना॑। जु॒ष॒ता॒म्। सु॒ज्योति॒रिति॑। सु॒ऽज्योतिः॑। ज्योति॑षा। स्वाहा॑ ॥ मधु॑। हु॒तम्। इन्द्र॑तम॒ इतीन्द्र॑ऽतमे। अ॒ग्नौ। अ॒श्याम॑। ते॒। दे॒व॒। घ॒र्म॒। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒ ॥१६ ॥

Mantra without Swara
स्वाहा रुद्राय रुद्रहूतये । स्वाहा सञ्ज्योतिषा ज्योतिः अहः केतुना जुषताँ सुज्योतिर्ज्यातिषा स्वाहा । रात्रिः केतुना जुषताँ सुज्योतिर्ज्यातिषा स्वाहा । मधु हुतमिन्द्रतमेऽअग्नावश्याम ते देव घर्म नमस्तेऽअस्तु मा मा हिँसीः॥

स्वाहा। रुद्राय। रुदाय। रुद्रहूतये इति रुद्रऽहूतये। स्वाहा। सम्। ज्योतिषा। ज्योतिः। अहरित्यहः। केतुना। जुषताम्। सुज्योतिरिति सुऽज्योतिः। ज्योतिषा। स्वाहा। रात्रिः। केतुना। जुषताम्। सुज्योतिरिति सुऽज्योतिः। ज्योतिषा। स्वाहा। रात्रिः। केतुना। जुषताम्। सुज्योतिरिति। सुऽज्योतिः। ज्योतिषा। स्वाहा॥ मधु। हुतम्। इन्द्रतम इतीन्द्रऽतमे। अग्नौ। अश्याम। ते। देव। घर्म। नमः। ते। अस्तु। मा। मा। हिꣳसीः॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्वाहा) (रुद्राय) जीवाय (रुद्रहूतये) रुद्राः प्राणा जीवा वा हूयन्ते स्तूयन्ते येन तस्मै (स्वाहा) (सम्) (ज्योतिषा) प्रकाशेन (ज्योतिः) प्रकाशम् (अहः) दिनम् (केतुना) प्रज्ञया। केतुरिति प्रज्ञानामसु पठितम्॥ (निघं॰३।९) (जुषताम्) सेवताम् (सुज्योतिः) शोभनं विद्यादिसद्गुणप्रकाशम् (ज्योतिषा) सत्यविद्योपदेशरूपप्रकाशेन (स्वाहा) (रात्रिः) रात्रिम्। अत्र विभक्तिव्यत्ययः। (केतुना) संकेतरूपचिह्नेन (जुषताम्) (सुज्योतिः) धर्मादिसद्गुणप्रकाशम् (ज्योतिषा) मननादिरूपप्रकाशेन (स्वाहा) (मधु) मधुरादिगुणयुक्तं घृतादि (हुतम्) वह्नौ प्रक्षिप्तम् (इन्द्रतमे) अतिशयेनैश्वर्य्यकारके विद्युद्रूपे (अग्नौ) पावके (अश्याम) प्राप्नुयाम (ते) तुभ्यम् (देव) विद्वन् (घर्म) प्रकाशमान (नमः) (ते) (अस्तु) (मा) निषेधे (मा) माम् (हिंसीः) हिंस्याः॥१६॥
Essence
मनुष्यैः प्राणानां जीवनस्य समाजस्य च रक्षणाय विज्ञानेन कर्माण्यहोरात्रश्च युक्त्या सेवनीयः, प्रतिदिनं प्रातः सायं कस्तूर्यादिसुगन्धियुक्तं घृतं वह्नौ हुत्वा वाय्वादिशुद्धिद्वारा नित्यं मोदनीयम्॥१६॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह॥
Anvaya
हे स्त्रि पुरुष वा! भवति भवन्वा केतुना रुद्राय रुद्रहूतये स्वाहा ज्योतिषा ज्योतिः स्वाहा ज्योतिषा सु्ज्योतिरहः स्वाहा संजुषताम्। केतुना ज्योतिषा सुज्योतिः रात्री रात्रिं स्वाहा जुषताम्। हे देव घर्म! येन त इन्द्रतमेऽग्नौ मधु हुतमश्याम ते नमोऽस्तु, त्वं मा मा हिंसीः॥१६॥