Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 12

28 Mantra
38/12
Devata- अश्विनौ देवते Rishi- दीर्घतमा ऋषिः Chhand- आर्ची पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अश्वि॑ना घ॒र्मं पा॑त॒ꣳ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभिः॑।त॒न्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्॥१२॥

अश्वि॑ना। घ॒र्मम्। पा॒त॒म्। हार्द्वा॑नम्। अहः॑। दि॒वाभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥ त॒न्त्रा॒यिणे॑। नमः॑। द्यावा॑पृथि॒वीभ्या॑म् ॥१२ ॥

Mantra without Swara
अश्विना घर्मम्पातँ हार्द्वानमहर्दिवाभिरूतिभिः । तन्त्रायिणो नमो द्यावापृथिवीभ्याम् ॥

अश्विना। घर्मम्। पातम्। हार्द्वानम्। अहः। दिवाभिः। ऊतिभिरित्यूतिऽभिः॥ तन्त्रायिणे। नमः। द्यावापृथिवीभ्याम्॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अश्विना) सुशिक्षितौ स्त्रीपुरुषौ (घर्मम्) (पातम्) रक्षतम् (हार्द्वानम्) हृदं वनति सम्भजति येन तदेव (अहः) प्रतिदिनम् (दिवाभिः) अहर्निशवर्त्तमानाभिः (ऊतिभिः) रक्षादिभिः (तन्त्रायिणे) तन्त्राणि कलाशास्त्राणि अयितुं ज्ञातुं प्राप्तुं वा शीलं यस्य तस्मै (नमः) अन्नम् (द्यावापृथिवीभ्याम्) सूर्यान्तरिक्षाभ्याम्॥१२॥
Essence
यथा भूमिसूर्य्यौ सदा परस्परोपकारिणौ सह वर्त्तेते, तथा सौहार्देन सहितौ सततं स्त्रीपुरुषौ वर्त्तेयाताम्॥१२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अश्विना स्त्रीपुरुषौ! युवामहर्दिवाभिरूतिभिस्तन्त्रायिणे हार्द्वानं घर्मं पातं द्यावापृथिवीभ्यां तन्त्रायिणे नमो दत्तम्॥१२॥