Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 38 / Mantra 10

28 Mantra
38/10
Devata- अश्विनौ देवते Rishi- दीर्घतमा ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
विश्वा॒ऽआशा॑ दक्षिण॒सद् विश्वा॑न् दे॒वानया॑डि॒ह।स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः॑ पिबतमश्विना॥१०॥

विश्वाः॑। आशाः॑। द॒क्षि॒ण॒सदिति दक्षिण॒ऽसत्। विश्वा॑न्। दे॒वान्। अया॑ट्। इ॒ह ॥ स्वाहा॑कृत॒स्येति॒ स्वाहा॑ऽकृतस्य। घ॒र्मस्य॑। मधोः। पि॒ब॒त॒म्। अ॒श्वि॒ना॒ ॥१० ॥

Mantra without Swara
विश्वाऽआशा दक्षिणसद्विश्वान्देवानयाडिह । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना ॥

विश्वाः। आशाः। दक्षिणसदिति दक्षिणऽसत्। विश्वान्। देवान्। अयाट्। इह॥ स्वाहाकृतस्येति स्वाहाऽकृतस्य। घर्मस्य। मधोः। पिबतम्। अश्विना॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(विश्वाः) सर्वाः (आशाः) दिशः (दक्षिणसत्) यो दक्षिणे देशे सीदति (विश्वान्) समग्रान् (देवान्) शुभान् गुणान् विदुषो वा (अयाट्) यजेत् सङ्गच्छेत् (इह) अस्मिन् संसारे (स्वाहाकृतस्य) सत्यक्रियानिष्पन्नस्य (घर्मस्य) यज्ञस्य (मधोः) मधुरादिगुणयुक्तस्य (पिबतम्) (अश्विना) अध्यापकोपदेशकौ॥१०॥
Essence
यथोपदेशकाध्यापकाः शिक्षेरन्नध्यापयेयुश्च तथैव सर्वे सङ्गृह्णीयुः॥१०॥
Subject
पुनरध्यापकोपदेशकौ किं कुर्यातामित्याह॥
Anvaya
हे अश्विना! यथा युवामिह स्वाहाकृतस्य घर्मस्य मधोरवशिष्टं भागं पिबतं तथाऽयं दक्षिणसज्जनो विश्वा आशा विश्वान् देवानयाट् सङ्गच्छेत्॥१०॥