Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 37 / Mantra 16

21 Mantra
37/16
Devata- ईश्वरो देवता Rishi- दध्यङ्ङाथर्वण ऋषिः Chhand- भुरिग्बृहती Swara- मध्यमः
Mantra with Swara
ध॒र्त्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्त्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः।वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म्॥१६॥

ध॒र्त्ता। दि॒वः। वि। भा॒ति॒। तप॑सः। पृ॒थि॒व्याम्। ध॒र्त्ता। दे॒वः। दे॒वाना॑म्। अम॑र्त्यः। त॒पो॒जा इति॑ तपः॒ऽजाः ॥ वाच॑म्। अ॒स्मे इत्य॒स्मे। नि। य॒च्छ॒। दे॒वा॒युव॑म्। दे॒व॒युव॒मिति॑ देव॒ऽयुव॑म् ॥१६ ॥

Mantra without Swara
धर्ता दिवो विभाति तपसस्पृथिव्यान्धर्ता देवो देवानाममर्त्यस्तपोजाः । वाचमस्मे नि यच्छ देवायुवम् ॥

धर्त्ता। दिवः। वि। भाति। तपसः। पृथिव्याम्। धर्त्ता। देवः। देवानाम्। अमर्त्यः। तपोजा इति तपःऽजाः॥ वाचम्। अस्मे इत्यस्मे। नि। यच्छ। देवायुवम्। देवयुवमिति देवऽयुवम्॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(धर्त्ता) (दिवः) प्रकाशमयस्य सूर्य्यादेः (वि, भाति) विशेषेण प्रकाशते (तपसः) प्रतापकस्य (पृथिव्याम्) अन्तरिक्षे (धर्ता) (देवः) प्रकाशस्वरूपः (देवानाम्) पृथिव्यादीनाम् (अमर्त्यः) मृत्युधर्मरहितः (तपोजाः) यस्तपसो जायते प्रकट्यते सः (वाचम्) सुशिक्षितां वाणीम् (अस्मे) अस्मभ्यम् (नि) नितराम् (यच्छ) देहि (देवायुवम्) या देवान् पृथिव्यादीन् दिव्यगुणान् विदुषो वा यावयति ताम्॥१६॥
Essence
हे विद्वांसो! यः परमेश्वरः सर्वेषां धर्त्ता प्रकाशकस्तपसा विज्ञातव्योऽस्ति, तज्ज्ञापिकां विद्यामस्मभ्यं दत्त॥१६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यः पृथिव्यां तपसो दिवो धर्त्ता यस्तपोजा अमर्त्यो देवो देवानां धर्त्ता जगदीश्वरो विभाति, तद्विज्ञानेनाऽस्मे देवायुवं वाचं नियच्छ॥१६॥