Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 37 / Mantra 12

21 Mantra
37/12
Devata- पृथिवी देवता Rishi- दध्यङ्ङाथर्वण ऋषिः Chhand- स्वराडुत्कृतिः Swara- षड्जः
Mantra with Swara
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ऽआयु॑र्मे दाः।पु॒त्रव॑ती दक्षिण॒तऽइन्द्र॒स्याऽधि॑पत्ये प्र॒जां मे॑ दाः।सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दाः।आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः।विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पते॒राधि॑पत्य॒ऽओजो॑ मे दाः।विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि॒ मनो॒रश्वा॑सि॥१२॥

अना॑धृष्टा। पु॒रस्ता॑त्। अ॒ग्नेः। आधि॑पत्य॒ इत्याधि॑ऽपत्ये। आयुः॑। मे॒। दाः॒। पु॒त्रव॒तीति॑ पु॒त्रऽव॑ती। द॒क्षि॒ण॒तः। इन्द्र॑स्य। आधि॑पत्य॒ इत्याधि॑ऽपत्ये। प्र॒जामिति॑ प्र॒ऽजाम्। मे॒। दाः॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। प॒श्चात्। दे॒वस्य॑। स॒वि॒तुः। आधि॑पत्य॒ इत्याधि॑ऽपत्ये॒। चक्षुः॑। मे॒। दाः॒। आश्रु॑ति॒रित्याश्रु॑तिः। उ॒त्त॒र॒तः। धा॒तुः। आधि॑पत्य॒ इत्याधि॑ऽपत्ये। रा॒यः। पोष॑म्। मे॒। दाः॒। विधृ॑ति॒रिति॒ विऽधृ॑तिः। उ॒परि॑ष्टात्। बृह॒स्पतेः॑। आधि॑पत्य॒ इत्याधि॑ऽपत्ये। ओजः॑। मे॒। दाः॒। विश्वा॑भ्यः। मा॒। ना॒ष्ट्राभ्यः॑। पा॒हि॒। मनोः॑। अश्वा॑। अ॒सि॒ ॥१२ ॥

Mantra without Swara
अनाधृष्टा पुरस्तादग्नेराधिपत्य आयुर्मे दाः पुत्रवती दक्षिणतऽइन्द्रस्याधिपत्ये प्रजाम्मे दाः । सुषदा पश्चाद्देवस्य सवितुराधिपत्ये चक्षुर्मे दाऽआस्रुतिरुत्तरतो धातुराधिपत्ये रायस्पोषम्मे दाः । विधृतिरुपरिष्टाद्बृहस्पतेराधिपत्येऽओजो मे दाः । विश्वाभ्यो मा नाष्ट्राभ्यस्पाहि । मनोरश्वासि ॥

अनाधृष्टा। पुरस्तात्। अग्नेः। आधिपत्य इत्याधिऽपत्ये। आयुः। मे। दाः। पुत्रवतीति पुत्रऽवती। दक्षिणतः। इन्द्रस्य। आधिपत्य इत्याधिऽपत्ये। प्रजामिति प्रऽजाम्। मे। दाः। सुषदा। सुसदेति सुऽसदा। पश्चात्। देवस्य। सवितुः। आधिपत्य इत्याधिऽपत्ये। चक्षुः। मे। दाः। आश्रुतिरित्याश्रुतिः। उत्तरतः। धातुः। आधिपत्य इत्याधिऽपत्ये। रायः। पोषम्। मे। दाः। विधृतिरिति विऽधृतिः। उपरिष्टात्। बृहस्पतेः। आधिपत्य इत्याधिऽपत्ये। ओजः। मे। दाः। विश्वाभ्यः। मा। नाष्ट्राभ्यः। पाहि। मनोः। अश्वा। असि॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अनाधृष्टा) परैर्धर्षणरहिता (पुरस्तात्) पूर्वदेशात् (अग्नेः) पावकस्य (आधिपत्ये) अधिपतेर्भावे (आयुः) जीवनप्रदमन्नम्। आयुरित्यन्ननामसु पठितम्॥ (निघं॰२।७) (मे) मह्यम् (दाः) दद्याः (पुत्रवती) प्रशस्ताः पुत्रा विद्यन्ते यस्याः सा (दक्षिणतः) दक्षिणाद्देशात् (इन्द्रस्य) विद्युत ऐश्वर्यस्य वा (आधिपत्ये) अधिष्ठातृत्वे (प्रजाम्) (मे) मह्यम् (दाः) दद्याः (सुषदा) सुष्ठु सीदन्ति यस्यां सा (पश्चात्) पश्चिमतः (देवस्य) देदीप्यमानस्य (सवितुः) सवितृमण्डलस्य (आधिपत्ये) (चक्षुः) (मे) मह्यम् (दाः) (आश्रुतिः) समन्ताच्छ्रवणं यस्याः सा (उत्तरतः) (धातुः) धर्त्तुर्वायोः (आधिपत्ये) (रायः) धनस्य (पोषम्) पुष्टिम् (मे) (दाः) (विधृतिः) विविधा धारणा यस्याः सा (उपरिष्टात्) ऊर्ध्वात् (बृहस्पतेः) बृहतां पालकस्य सूत्रात्मनः (आधिपत्ये) (ओजः) बलम् (मे) (दाः) (विश्वाभ्यः) सर्वाभ्यः (मा) माम् (नाष्ट्राभ्यः) नष्टभ्रष्टस्वभावाभ्यो व्यभिचारिणीभ्यः (पाहि) (मनोः) अन्तःकरणस्य (अश्वा) व्यापिका (असि) भवसि॥१२॥
Essence
हे मनुष्याः! यथाऽग्निर्जीवनं यथा विद्युत् प्रजां यथा सविता दर्शनं धाता श्रियं महाशयो बलञ्च ददाति, तथैव सुलक्षणा पत्नी सर्वाणि सुखानि प्रयच्छति, तां यथावद् रक्षत॥१२॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह॥
Anvaya
हे स्त्रि! त्वमनाधृष्टा सती पुरस्तादग्नेराधिपत्ये म आयुर्दाः, पुत्रवती सती दक्षिणत इन्द्रस्याधिपत्ये मे प्रजां दाः, सुषदा सती पश्चात् सवितुर्देवस्याधिपत्ये मे चक्षुर्दा, आश्रुतिः सत्युत्तरतो धातुराधिपत्ये मे रायस्पोषं दाः, विधृतिः सत्युपरिष्टाद् बृहस्पतेराधिपत्ये म ओजो दाः। यतो मनोरश्वाऽसि तस्माद्विश्वाभ्यो नाष्ट्राभ्यो मा पाहि॥१२॥