Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 36 / Mantra 15

24 Mantra
36/15
Devata- आपो देवताः Rishi- सिन्धुद्वीप ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑।उ॒श॒तीरि॑व मा॒तरः॑॥१५॥

यः। वः॒। शि॒वत॑म॒ इति॑ शि॒वऽत॑मः। रसः॑। तस्य॑। भा॒ज॒य॒त॒। इ॒ह। नः॒। उ॒श॒तीरिवेत्यु॑श॒तीःऽइ॑व। मा॒तरः॑ ॥१५ ॥

Mantra without Swara
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥

यः। वः। शिवतम इति शिवऽतमः। रसः। तस्य। भाजयत। इह। नः। उशतीरिवेत्युशतीःऽइव। मातरः॥१५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यः) (वः) युष्माकम् (शिवतमः) अतिशयेन कल्याणकरः (रसः) आनन्दवर्द्धकः स्नेहरूपः (तस्य) रसम्। अत्र कर्मणि षष्ठी। (भाजयत) सेवयत (इह) अस्मिञ्जगति (नः) अस्मान् (उशतीरिव) कामयमाना इव। अत्र वाच्छन्दसि॥ (अष्टा॰६।१।१०२) इति पूर्वसवर्णादेशः। (मातरः)॥१५॥
Essence
यदि होमादिनाऽऽपः शुद्धाः क्रियेरँस्तर्ह्येता मातरोऽपत्यानीव पतिव्रता पतीनिव सर्वान् प्राणिनस्सुखयन्ति॥१५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सत्स्त्रियो! यो वः शिवतमो रसोऽस्ति तस्येह नो मातरः पुत्रानुशतीरिव भाजयत॥१५॥