Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 36 / Mantra 10

24 Mantra
36/10
Devata- वातादयो देवताः Rishi- दध्यङ्ङाथर्वण ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
शन्नो॒ वातः॑ पवता॒ शन्न॑स्तपतु॒ सूर्यः॑।शन्नः॒ कनि॑क्रदद्दे॒वः प॒र्जन्यो॑ऽअ॒भि व॑र्षतु॥१०॥

शम्। नः॒। वातः॑। प॒व॒ता॒म्। शम्। नः॒। त॒प॒तु॒। सूर्य्यः॑ ॥ शम्। नः॒। कनि॑क्रदत्। दे॒वः। प॒र्जन्यः॑। अ॒भि। व॒र्ष॒तु॒ ॥१० ॥

Mantra without Swara
शन्नो वातः पवताँ शन्नस्तपतु सूर्यः । शन्नः कनिक्रदद्देवः पर्जन्यो अभि वर्षतु ॥

शम्। नः। वातः। पवताम्। शम्। नः। तपतु। सूर्य्यः॥ शम्। नः। कनिक्रदत्। देवः। पर्जन्यः। अभि। वर्षतु॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शम्) सुखकारकः (नः) अस्मभ्यम् (वातः) पवनः (पवताम्) चलतु (शम्) (नः) (तपतु) (सूर्य्यः) (शम्) (नः) (कनिक्रदत्) भृशं शब्दं कुर्वन् (देवः) दिव्यगुणयुक्तो विद्युदाख्यः (पर्जन्यः) मेघः (अभि) आभिमुख्ये (वर्षतु)॥१०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! येन प्रकारेण वायुसूर्य्यविद्युन्मेघाः सर्वेषां सुखकराः स्युस्तथाऽनुतिष्ठत॥१०॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्याह॥
Anvaya
हे परमेश्वर विद्वन् वा! यथा वातो नः शं पवतां सूर्य्यो नः शं तपतु, कनिक्रदद्देवो नः शं भवतु, पर्जन्यो नोऽभिवर्षतु, तथाऽस्मान् शिक्षय॥१०॥