Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 9

22 Mantra
35/9
Devata- विश्वेदेवा देवताः Rishi- सुचीक ऋषिः Chhand- विराड् बृहती Swara- मध्यमः
Mantra with Swara
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः।अ॒न्तरि॑क्षꣳ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑॥९॥

कल्प॑न्ताम्। ते॒। दिशः॑। तुभ्य॑म्। आपः॑। शि॒वत॑मा॒ इति॑ शि॒वऽत॑माः। तुभ्य॑म्। भ॒व॒न्तु॒। सिन्ध॑वः ॥ अ॒न्तरि॑क्षम्। शि॒वम्। तुभ्य॑म्। कल्प॑न्ताम्। ते॒। दिशः॑ सर्वाः॑ ॥९ ॥

Mantra without Swara
कल्पन्तान्ते दिशस्तुभ्यमापः शिवतमास्तुभ्यठम्भवन्तु सिन्धवः । अन्तरिक्षँ शिवन्तुभ्यङ्कल्पन्तान्ते दिशः सर्वाः ॥

कल्पन्ताम्। ते। दिशः। तुभ्यम्। आपः। शिवतमा इति शिवऽतमाः। तुभ्यम्। भवन्तु। सिन्धवः॥ अन्तरिक्षम्। शिवम्। तुभ्यम्। कल्पन्ताम्। ते। दिशः सर्वाः॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कल्पन्ताम्) समर्था भवन्तु (ते) तुभ्यम् (दिशः) पूर्वाद्याः (तुभ्यम्) (आपः) प्राणा जलानि वा (शिवतमाः) अतिशयेन सुखकराः (तुभ्यम्) (भवन्तु) (सिन्धवः) नद्यः समुद्रा वा (अन्तरिक्षम्) आकाशम् (शिवम्) सुखकरम्। शिवमिति सुखनामसु पठितम्॥ (निघं॰३।६) (तुभ्यम्) (कल्पन्ताम्) (ते) तुभ्यम् (दिशः) ऐशान्याद्याः (सर्वाः) समग्राः॥९॥
Essence
येऽधर्मं विहाय सर्वथा धर्माचरन्ति, तेभ्यः पृथिव्यादयः सर्वे सृष्टिस्थाः पदार्था मङ्गलकारिणो भवन्ति॥९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे जीव! ते दिशश्शिवतमाः कल्पन्ताम्, तुभ्यमापः शिवतमा भवन्तु, तुभ्यं सिन्धवः शिवतमा भवन्तु, तुभ्यं शिवमन्तरिक्षं भवतु, ते सर्वा दिशः शिवतमाः कल्पन्ताम्॥९॥