Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 20

22 Mantra
35/20
Devata- पृथिवी देवता Rishi- मेधातिथिर्ऋषिः Chhand- स्वराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न् वेत्थ॒ निहि॑तान् परा॒के।मेद॑सः कु॒ल्याऽ उप॒ तान्त्स्र॑वन्तु स॒त्याऽ ए॑षामा॒शिषः॒ सं न॑मन्ता॒ स्वाहा॑॥२०॥

वह॑। व॒पाम्। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑। यत्र॑। ए॒ना॒न्। वेत्थ॑। निहि॑ता॒निति॒ निऽहि॑तान्। प॒रा॒के ॥ मेद॑सः। कु॒ल्याः। उप॑। तान्। स्र॒व॒न्तु॒। स॒त्याः। ए॒षा॒म्। आ॒शिष॒ इत्या॒ऽऽशिषः॑। सम्। न॒म॒न्ता॒म्। स्वाहा॑ ॥२० ॥

Mantra without Swara
वह वपाञ्जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । मेदसः कुल्याऽउप तान्त्स्रवन्तु सत्याऽएषामाशिषः सन्नमन्ताँ स्वाहा ॥

वह। वपाम्। जातवेद इति जातऽवेदः। पितृभ्य इति पितृऽभ्यः। यत्र। एनान्। वेत्थ। निहितानिति निऽहितान्। पराके॥ मेदसः। कुल्याः। उप। तान्। स्रवन्तु। सत्याः। एषाम्। आशिष इत्याऽऽशिषः। सम्। नमन्ताम्। स्वाहा॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वह) प्राप्नुहि (वपाम्) वपन्ति यस्यां भूमौ ताम् (जातवेदः) जातप्रज्ञानः (पितृभ्यः) जनकेभ्यो विद्याशिक्षादातृभ्यो वा (यत्र) (एनान्) (वेत्थ) जानासि (निहितान्) (पराके) दूरे (मेदसः) स्निग्धाः (कुल्याः) जलप्रवाहाधाराः (उप) (तान्) जनान् (स्रवन्तु) प्राप्नुवन्तु (सत्याः) सत्सु साध्व्यः (एषाम्) (आशिषः) इच्छा (सम्) सम्यक् (नमन्ताम्) प्राप्नुवन्तु (स्वाहा) सत्यया क्रियया॥२०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये दूरे स्थितान् पितॄन् विदुषश्चाहूय सत्कुर्वन्ति, यथाऽऽरामवृक्षादीन् जलवायू वर्द्धयतस्तथैतेषामिच्छाः सत्याः सत्यः सर्वतो वर्द्धन्ते॥२०॥
Subject
अथ पितृसेवनविषयमाह॥
Anvaya
हे जातवेदस्त्वं यत्रैतान् पराके निहितान् वेत्थ, तत्र पितृभ्यो वपां वह, यथा मेदसः कुल्यास्तानुपस्रवन्तु, तथा स्वाहैषामाशिषः सत्याः सन्नमन्ताम्॥२०॥