Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 17

22 Mantra
35/17
Devata- इन्द्रो देवता Rishi- भरद्वाजः शिरम्बिठ ऋषिः Chhand- स्वराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि।घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑॥१७॥

आयु॑ष्मान्। अ॒ग्ने॒। ह॒विषा॑। वृ॒धा॒नः। घृ॒तप्र॑तीक॒ इति॑ घृ॒तऽप्र॑तीकः। घृ॒तयो॑नि॒रिति॑ घृ॒तऽयो॑निः। ए॒धि॒ ॥ घृ॒तम्। पी॒त्वा। मधु॑। चारु॑। गव्य॑म्। पि॒तेवेति॑ पि॒ताऽइ॑व। पु॒त्रम्। अ॒भि। र॒क्ष॒ता॒त्। इ॒मान्। स्वाहा॑ ॥१७ ॥

Mantra without Swara
आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि । घृतम्पीत्वा मधु चारु गव्यम्पितेव पुत्रमभिरक्षतादिमान्त्स्वाहा ॥

आयुष्मान्। अग्ने। हविषा। वृधानः। घृतप्रतीक इति घृतऽप्रतीकः। घृतयोनिरिति घृतऽयोनिः। एधि॥ घृतम्। पीत्वा। मधु। चारु। गव्यम्। पितेवेति पिताऽइव। पुत्रम्। अभि। रक्षतात्। इमान्। स्वाहा॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आयुष्मान्) बह्वायुर्विद्यते यस्य सः (अग्ने) अग्निरिव वर्त्तमान राजन् (हविषा) घृतादिना (वृधानः) वर्द्धमानः। अत्र बहुलं छन्दसीति शानचि शपो लुक्। (घृतप्रतीकः) यो घृतमुदकं प्रत्याययति सः (घृतयोनिः) घृतं प्रदीप्तं तेजो योनिः कारणं गृहं वा यस्य सः (एधि) भव (घृतम्) (पीत्वा) (मधु) मधुरम् (चारु) सुन्दरम् (गव्यम्) गोर्विकारम् (पितेव) (पुत्रम्) (अभि) आभिमुख्ये (रक्षतात्) रक्ष (इमान्) (स्वाहा) सत्यया क्रियया॥१७॥
Essence
अत्र वाचकलुप्तोमालङ्कारः। यथा सूर्यादिरूपेणाग्निर्बाह्याभ्यन्तरः सन् सर्वान् रक्षति, तथैव राजा पितृवद्वर्त्तमानः सन् पुत्रमिवेमाः प्रजाः सततं रक्षेत॥१७॥
Subject
अथ राजधर्मविषयमाह॥
Anvaya
हे अग्ने! यथा हविषा वृधानो घृतप्रतीको घृतयोनिरग्निर्वर्द्धते तथाऽऽयुष्माँस्त्वमेधि। मधु चारु गव्यं घृतं पीत्वा पितेव स्वाहेमानभि रक्षतात्॥१७॥