Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 14

22 Mantra
35/14
Devata- ईश्वरो देवता Rishi- सड्कसुक ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उद्व॒यन्तम॑स॒स्परि॒ स्वः] पश्य॑न्त॒ऽउत्त॑रम्।दे॒वं दे॑व॒त्रा सूर्य्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥१४॥

उत्। व॒यम्। तम॑सः। परि॑। स्व᳕रिति॒ स्वः᳕। पश्य॑न्तः। उत्त॑र॒मित्यु॒त्ऽत॑रम् ॥ दे॒वम्। दे॒वत्रेति॑ देव॒ऽत्रा। सूर्य्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥१४ ॥

Mantra without Swara
उद्वयन्तमसस्परि स्वः पश्यन्त उत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

उत्। वयम्। तमसः। परि। स्वरिति स्वः। पश्यन्तः। उत्तरमित्युत्ऽतरम्॥ देवम्। देवत्रेति देवऽत्रा। सूर्य्यम्। अगन्म। ज्योतिः। उत्तममित्युत्ऽतमम्॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (वयम्) (तमसः) अन्धकारात् (परि) वर्जने (स्वः) स्वप्रकाशमादित्यम् (पश्यन्तः) प्रेक्षमाणाः (उत्तरम्) दुःखेभ्य उत्तारकं परत्र वर्त्तमानम् (देवम्) विजयादिलाभप्रदम् (देवत्रा) देवेषु विद्वत्सु प्रकाशमयेषु सूर्य्यादिषु वा (सूर्य्यम्) अन्तर्यामिरूपेण स्वव्याप्त्या चराऽचरात्मानं परमात्मानं (अगन्म) विजानीयाम (ज्योतिः) स्वप्रकाशम् (उत्तमम्) सर्वोत्कृष्टम्॥१४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा सूर्य्यं पश्यन्तो दीर्घायुषो धर्मात्मानो जनाः सुखं लभन्ते, तथैव धार्मिका योगिनो महादेवं सर्वप्रकाशकं जन्ममृत्युक्लेशादिभ्यः पृथग् वर्त्तमानं सच्चिदानन्दस्वरूपं परमात्मानं साक्षाद् विज्ञाय मोक्षमवाप्य सततमानन्दन्ति॥१४॥
Subject
के मोक्षमधिगच्छन्तीत्याह॥
Anvaya
हे मनुष्याः! वयं यं तमसस्परि स्वरिव वर्त्तमानं देवत्रा देवं ज्योतिरुत्तममुत्तरं सूर्य्यं पश्यन्तः सन्तः पर्य्युदगन्म, तमेव यूयमपि सर्वतो विजानीत॥१४॥