Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 11

22 Mantra
35/11
Devata- आपो देवताः Rishi- आदित्या देवा ऋषयः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑।अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्य॑ꣳ सुव॥११॥

अप॑। अ॒घम्। अप॑। किल्वि॑षम्। अप॑। कृ॒त्याम्। अपो॒ऽइत्यपोः॑। रपः॑ ॥ अपा॑मार्ग। अप॑मा॒र्गेत्यप॑ऽमार्ग। त्वम्। अ॒स्मत्। अप॑। दुः॒ष्वप्न्य॑म्। दुः॒ष्वप्न्य॒मिति॑ दुः॒ऽस्वप्न्य॑म्। सु॒व॒ ॥११ ॥

Mantra without Swara
अपाघमप किल्विषमप कृत्यामपो रपः । अपामार्ग त्वमस्मदप दुःष्वप्न्यँ सुव ॥

अप। अघम्। अप। किल्विषम्। अप। कृत्याम्। अपोऽइत्यपोः। रपः॥ अपामार्ग। अपमार्गेत्यपऽमार्ग। त्वम्। अस्मत्। अप। दुःष्वप्न्यम्। दुःष्वप्न्यमिति दुःऽस्वप्न्यम्। सुव॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अप) दूरीकरणे (अघम्) पापम् (अप) (किल्विषम्) स्वान्तःस्थं मलम् (अप) (कृत्याम्) दुष्क्रियाम् (अपो) दूरीकरणे (रपः) बाह्येन्द्रियचाञ्चल्यजन्यमपराधम् (अपामार्ग) रोगनिवारकोऽपामार्ग ओषधिरिव पापदूरीकर्त्तः (त्वम्) (अस्मत्) अस्माकं सकाशात् (अप) (दुःष्वप्न्यम्) दुष्टश्चासौ स्वप्नो निद्रा च तस्मिन् भवम् (सुव) प्रेरय॥११॥
Essence
अत्र वाचकलुप्तोमालङ्कारः। यथाऽपामार्गाद्योषधयो रोगान्निवार्य्य प्राणिनः सुखयन्ति, तथा स्वयं सर्वेभ्यो दोषेभ्यः पृथग्भूत्वाऽन्यानशुभाचरणात् पृथक् कृत्वा ये शुद्धा भवन्त्यन्यान् भावयन्ति च त एव मनुष्यादीनां पवित्रकराः सन्ति॥११॥
Subject
अथ के पवित्रकारका इत्याह॥
Anvaya
हे अपामार्ग! त्वमस्मदघमपसुव, किल्विषमपसुव, कृत्यामपसुव, रपोऽपो सुव, दुःष्वप्न्यमपसुव॥११॥