Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 35 / Mantra 10

22 Mantra
35/10
Devata- आपो देवताः Rishi- शुनःशेप ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अश्म॑न्वती रीयते॒ सꣳर॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः।अत्रा॑ जही॒मोऽशि॑वा॒ येऽ अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न्॥१०॥

अश्म॑न्व॒तीत्यश्म॑न्ऽवती। री॒य॒ते॒। सम्। र॒भ॒ध्व॒म्। उत्। ति॒ष्ठ॒त॒। प्र। त॒र॒त॒। स॒खा॒यः॒ ॥अत्र॑। ज॒ही॒मः॒। अशि॑वाः। ये। अस॑न्। शि॒वान्। व॒यम्। उत्। त॒रे॒म॒। अ॒भि। वाजा॑न् ॥१० ॥

Mantra without Swara
अश्मन्वती रीयते सँ रभध्वमुत्तिष्ठत प्र तरता सखायः । अत्र जहीमो शिवा येऽअसञ्छिवान्वयमुत्तरेमाभि वाजान् ॥

अश्मन्वतीत्यश्मन्ऽवती। रीयते। सम्। रभध्वम्। उत्। तिष्ठत। प्र। तरत। सखायः॥अत्र। जहीमः। अशिवाः। ये। असन्। शिवान्। वयम्। उत्। तरेम। अभि। वाजान्॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अश्मन्वती) बहवोऽश्मानो मेघाः पाषाणा वा विद्यन्ते यस्यां सृष्टौ नद्यां वा सा (रीयते) गच्छति (सम्) सम्यक् (रभध्वम्) प्रारम्भं कुरुत (उत्) (तिष्ठत) उद्यता भवत (प्र) (तरत) दुःखान्युल्लङ्घयत। अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (सखायः) सुहृदः सन्तः (अत्र) अस्मिन् संसारे समये वा। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः। (जहीमः) त्यजामः (अशिवाः) अकल्याणकराः (ये) (असन्) सन्ति (शिवान्) सुखकरान् (वयम्) (उत्) (तरेम) उल्लङ्घयेम (अभि) (वाजान्) अत्युत्तमानन्नादिभोगान्॥१०॥
Essence
ये मनुष्या बृहत्या नौकया समुद्रमिवाऽशुभाचरणानि दुष्टांश्च तीर्त्वा प्रयत्नेनोद्यमिनो भूत्वा मङ्गलान्याचरेयुस्ते दुःखसागरं सहजतः सन्तरेयुः॥१०॥
Subject
के दुःखात् तरन्तीत्याह॥
Anvaya
हे सखायो! याऽश्मन्वती रीयते तया वयं येऽत्राशिवा असँस्तान् जहीमः, शिवान् वाजानभ्युत्तरेम तथा यूयं सरंभध्वमुत्तिष्ठत प्रतरत च॥१०॥