Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 7

58 Mantra
34/7
Devata- अन्नं देवता Rishi- शिवसङ्कल्प ऋषिः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम्।यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्द्दय॑त्॥७॥

पितुम्। नु। स्तो॒ष॒म्। म॒हः। धर्मा॑ण॑म्। तवि॑षीम् ॥ यस्य॑। त्रि॒तः। वि। ओज॑सा। वृ॒त्रम्। विप॑र्व॒मिति॒ विऽप॑र्वम्। अ॒र्दय॑त् ॥७ ॥

Mantra without Swara
पितुन्नु स्तोषम्महो धर्माणन्तविषीम् । यस्य त्रितो व्योजसा वृत्रँ विपर्वमर्दयत् ॥

पितुम्। नु। स्तोषम्। महः। धर्माणम्। तविषीम्॥ यस्य। त्रितः। वि। ओजसा। वृत्रम्। विपर्वमिति विऽपर्वम्। अर्दयत्॥७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पितुम्) अन्नम् (नु) सद्यः (स्तोषम्) स्तुवे (महः) महान्तम् (धर्माणम्) पक्षपातरहितं न्यायाचरणं धर्मम् (तविषीम्) बलयुक्तां सेनाम्। तविषीति बलनामसु पठितम्॥ (निघं॰२।९) (यस्य) (त्रितः) त्रिषु कालेषु। सप्तम्यर्थे तसिः। (वि) (ओजसा) उदकेन सह। ओजस इत्युदकनामसु पठितम्॥ (निघं॰१।१२) (वृत्रम्) मेघम् (विपर्वम्) विगतानि पर्वाणि ग्रन्थयो यस्य तम् (अर्दयत्) अर्दयति नाशयति॥७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। येन सत्यो धर्मो बलवती सेना पुष्कलान्नादिसामग्री च ध्रियते स सूर्य्यो मेघमिव शत्रून् विजेतुं शक्नुयात्॥७॥
Subject
अथ कः शत्रून् विजेतुं शक्नोतीत्याह॥
Anvaya
अहं यस्य पितुं महो धर्माणं तविषीं नु स्तोषं स राजपुरुषः त्रितः सूर्य ओजसा सह वर्त्तमानं विपर्वं वृत्रं व्यर्दयदिव शत्रूञ्जेतुं शक्नोति॥७॥