Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 57

58 Mantra
34/57
Devata- ब्रह्मणस्पतिर्देवता Rishi- कण्व ऋषिः Chhand- विराट् बृहती Swara- मध्यमः
Mantra with Swara
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्युक्थ्यम्।यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रोऽअ॑र्य॒मा दे॒वाऽओका॑सि चक्रि॒रे॥५७॥

प्र। नू॒नम्। ब्रह्म॑णः। पतिः॑। मन्त्र॑म्। व॒द॒ति॒। उ॒क्थ्य᳖म् ॥ यस्मि॑न्। इन्द्रः॑। वरु॑णः। मित्रः॒। अ॒र्य्य॒मा। दे॒वाः। ओका॑सि। च॒क्रि॒रे॒ ॥५७ ॥

Mantra without Swara
प्रनूनम्ब्रह्मणस्पतिर्मन्त्रँवदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणोऽमित्रो अर्यमा देवा ओकाँसि चक्रिरे ॥

प्र। नूनम्। ब्रह्मणः। पतिः। मन्त्रम्। वदति। उक्थ्यम्॥ यस्मिन्। इन्द्रः। वरुणः। मित्रः। अर्य्यमा। देवाः। ओकासि। चक्रिरे॥५७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (नूनम्) निश्चितम् (ब्रह्मणः) वेदविद्यायाः (पतिः) पालकः (मन्त्रम्) (वदति) (उक्थ्यम्) उक्थ्येषु प्रशंसनीयेषु साधुम् (यस्मिन्) (इन्द्रः) विद्युत् सूर्य्यो वा (वरुणः) जलं चन्द्रो वा (मित्रः) प्राणोऽन्ये वायवश्च (अर्य्यमा) सूत्रात्मा (देवाः) दिव्यगुणाः (ओकांसि) निवासान् (चक्रिरे) कृतवन्तः सन्ति॥५७॥
Essence
हे मनुष्याः! यस्मिन् परमात्मनि सर्वं जगत्कारणं कार्यं जीवाश्च वसन्ति, यश्च सर्वेषां जीवानां हितसाधकं वेदोपदेशं कृतवानस्ति, तमेव यूयं भजत॥५७॥
Subject
अथेश्वरविषयमाह॥
Anvaya
हे मनुष्याः! यस्मिन्निन्द्रो वरुणो मित्रोऽर्यमा देवा ओकांसि चक्रिरे, स ब्रह्मणस्पतिः परमात्मोक्थ्यं मन्त्रं वेदाख्यं नूनं प्रवदतीति विजानीत॥५७॥