Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 56

58 Mantra
34/56
Devata- ब्रह्मणस्पतिर्देवता Rishi- कण्व ऋषिः Chhand- निचृद्बृहती Swara- मध्यमः
Mantra with Swara
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे।उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ऽइन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑॥५६॥

उत्। ति॒ष्ठ॒। ब्र॒ह्म॒णः॒। प॒ते॒। दे॒व॒यन्त॒ इति॑ देव॒ऽयन्तः॑। त्वा॒। ई॒म॒हे॒ ॥ उप॑। प्र। य॒न्तु॒। म॒रुतः॑। सु॒दा॑नव॒ इति॑ सु॒ऽदान॑वः। इन्द्र॑। प्रा॒शूः। भ॒व॒। सचा॑ ॥५६ ॥

Mantra without Swara
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतः सुदानवऽइन्द्र प्राशूर्भवा सचा ॥

उत्। तिष्ठ। ब्रह्मणः। पते। देवयन्त इति देवऽयन्तः। त्वा। ईमहे॥ उप। प्र। यन्तु। मरुतः। सुदानव इति सुऽदानवः। इन्द्र। प्राशूः। भव। सचा॥५६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (तिष्ठ) (ब्रह्मणः) धनस्य (पते) पालक! (देवयन्तः) कामयमानाः (त्वा) त्वाम् (ईमहे) याचामहे (उप) (प्र) (यन्तु) प्राप्नुवन्तु (मरुतः) मनुष्याः (सुदानवः) शोभनदानाः) (इन्द्र) ऐश्वर्यकारक! (प्राशूः) यः प्राश्नाति सः (भव) अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः (सचा) सत्यसमवायेन॥५६॥
Essence
हे विद्वन्! ये विद्यां कामयमानास्त्वामुपतिष्ठेयुस्तेभ्यो विद्यादानाय भवानुत्तिष्ठतूद्युक्तो भवतु॥५६॥
Subject
विद्वान् किं कुर्यादित्याह॥
Anvaya
हे ब्रह्मणस्पते इन्द्र! देवयन्तो वयं यन्त्वेमहे यन्त्वा सुदानवो मरुत उप प्रयन्तु। स त्वमुत्तिष्ठ सचा प्राशूर्भव॥५६॥