Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 54

58 Mantra
34/54
Devata- आदित्या देवताः Rishi- कूर्म गार्त्समद ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ॒मा गिर॑ऽआदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वड्टा जुहोमि।शृ॒णोतु॑ मि॒त्रोऽअ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ऽअꣳशः॑॥५४॥

इ॒माः। गिरः॑। आ॒दि॒त्येभ्यः॑। घृ॒तस्नू॒रिति॑ घृ॒त्ऽस्नूः॑। स॒नात्। राज॑भ्य॒ इति॒ राज॑ऽभ्यः। जु॒ह्वा᳖। जु॒हो॒मि॒ ॥ शृ॒णो॒तु॑। मि॒त्रः। अ॒र्य्य॒मा। भगः॑। नः॒। तु॒वि॒जा॒त इति॑ तुविऽजा॒तः। वरु॑णः। दक्षः॑। अꣳशः॑ ॥५४ ॥

Mantra without Swara
इमा गिरऽआदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि । शृणोतु मित्रोऽअर्यमा भगो नस्तुविजातो वरुणो दक्षो अँशः ॥

इमाः। गिरः। आदित्येभ्यः। घृतस्नूरिति घृत्ऽस्नूः। सनात्। राजभ्य इति राजऽभ्यः। जुह्वाड्ट। जुहोमि॥ शृणोतु। मित्रः। अर्य्यमा। भगः। नः। तुविजात इति तुविऽजातः। वरुणः। दक्षः। अꣳशः॥५४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इमाः) सत्याः (गिरः) वाचः (आदित्येभ्यः) तेजस्विभ्यः (घृतस्नूः) घृतमुदकमिव प्रदीप्तं व्यवहारं स्नान्ति शोधयन्ति ताः (सनात्) नित्यम् (राजभ्यः) नृपेभ्यः (जुह्वा) ग्रहणसाधनेन (जुहोमि) आददामि (शृणोतु) (मित्रः) सखा (अर्य्यमा) न्यायकारी (भगः) ऐश्वर्य्यवान् (नः) अस्माकम् (तुविजातः) बहुषु प्रसिद्धः (वरुणः) श्रेष्ठः (दक्षः) चतुरः (अंशः) विभाजकः॥५४॥
Essence
विद्यार्थिभिर्या आचार्येभ्यः सुशिक्षिता वाचो गृहीतास्ता अन्य आप्ताः श्रुत्वा सुपरीक्ष्य शिक्षयन्तु॥५४॥
Subject
अथ वाग्विषयमाह॥
Anvaya
अहमादित्येभ्यो राजभ्यो या इमा गिरो जुह्वा सनाज्जुहोमि, ता घृतस्नूर्नो गिरो मित्रोऽर्य्यमा भगस्तुविजातो दक्षोंऽशो वरुणश्च शृणोतु॥५४॥