Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 53

58 Mantra
34/53
Devata- लिङ्गोक्ता देवताः Rishi- ऋजिष्व ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
उ॒त नोऽहि॑र्बु॒ध्न्यः शृणोत्व॒जऽएक॑पात् पृथि॒वी स॑मु॒द्रः।विश्वे॑ दे॒वाऽऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ताऽअ॑वन्तु॥५३॥

उ॒त। नः॒। अहिः॑। बु॒ध्न्यः᳖। शृ॒णो॒तु॒। अ॒जः। एक॑पा॒दित्येक॑ऽपात्। पृ॒थि॒वी। स॒मु॒द्रः ॥ विश्वे॑। दे॒वाः। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। हु॒वा॒नाः। स्तु॒ताः। मन्त्राः॑। क॒वि॒श॒स्ता इति॑ कविऽश॒स्ताः। अ॒व॒न्तु॒ ॥५३ ॥

Mantra without Swara
उत नोहिर्बुध्न्यः शृणोत्वजऽएकपात्पृथिवी समुद्रः । विश्वे देवाऽऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ताऽअवन्तु ॥

उत। नः। अहिः। बुध्न्यः। शृणोतु। अजः। एकपादित्येकऽपात्। पृथिवी। समुद्रः॥ विश्वे। देवाः। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। हुवानाः। स्तुताः। मन्त्राः। कविशस्ता इति कविऽशस्ताः। अवन्तु॥५३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत) अपि (नः) अस्माकं वचांसि (अहिः) मेघः (बुध्न्यः) बुध्नेऽन्तरिक्षे भवः (शृणोतु) (अजः) यो न जायते सः (एकपात्) एकः पादो बोधो यस्य सः (पृथिवी) (समुद्रः) अन्तरिक्षम् (विश्वे) सर्वे (देवाः) विद्वांसः (ऋतावृधः) सत्यस्य वर्द्धकाः (हुवानाः) स्पर्द्धमानाः (स्तुताः) स्तुतिप्रकाशकाः (मन्त्राः) विचारसाधकाः (कविशस्ताः) कविभिर्मेधाविभिः शस्ताः प्रशंसिताः (अवन्तु)॥५३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा पृथिव्यादयः पदार्था मेघः परमेश्वरश्च सर्वान् रक्षन्ति, तथैव विद्या विद्वांसश्च सर्वान् पालयन्ति॥५३॥
Subject
अथ के सर्वरक्षकाः सन्तीत्याह॥
Anvaya
हे मनुष्याः! बुध्न्योऽहिरिव पृथिवी समुद्रश्चेवैकपादजो नः शृणोतु। ऋतावृधो हुवाना विश्वे देवा उतापि कविशस्ताः स्तुता मन्त्रा नोऽस्मानवन्तु॥५३॥