Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 51

58 Mantra
34/51
Devata- हिरण्यन्तेजो देवता Rishi- दक्ष ऋषिः Chhand- भुरिक्छक्वरी Swara- धैवतः
Mantra with Swara
न तद्रक्षा॑सि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोजः॑ प्रथम॒जꣳ ह्ये॒तत्। यो बि॒भर्ति॑ दाक्षाय॒णꣳ हिर॑ण्य॒ꣳ स दे॒वेषु॑ कृणुते दी॒र्घमायुः॒ स म॑नु॒ष्येषु कृणुते दी॒र्घमायुः॑॥५१॥

न। तत्। रक्षा॑सि। न। पि॒शा॒चाः। त॒र॒न्तिः। दे॒वाना॑म्। ओजः॑। प्र॒थ॒म॒जमिति॑ प्रथम॒ऽजम्। हि। ए॒तत् ॥ यः। बि॒भर्त्ति॑। दा॒क्षा॒य॒णम्। हिर॑ण्यम्। सः। दे॒वेषु॑। कृ॒णु॒ते॒। दी॒र्घम्। आयुः॑। सः। म॒नु॒ष्ये᳖षु। कृ॒णु॒ते॒। दी॒र्घम्। आयुः॑ ॥५१ ॥

Mantra without Swara
न तद्रक्षाँसि न पिशाचास्तरन्ति देवानामोजः प्रथमजँ ह्येतत् । यो बिभर्ति दाक्षायणँ हिरण्यँ स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः ॥

न। तत्। रक्षासि। न। पिशाचाः। तरन्तिः। देवानाम्। ओजः। प्रथमजमिति प्रथमऽजम्। हि। एतत्॥ यः। बिभर्त्ति। दाक्षायणम्। हिरण्यम्। सः। देवेषु। कृणुते। दीर्घम्। आयुः। सः। मनुष्येषु। कृणुते। दीर्घम्। आयुः॥५१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(न) (तत्) अध्ययनं विद्याप्रापणम् (रक्षांसि) अन्यान् प्रपीड्य स्वात्मानमेव ये रक्षन्ति ते (न) (पिशाचाः) ये प्राणिनां पेशितं रुधिरादिकमाचामन्ति भक्षयन्ति ते हिंसका म्लेच्छाचारिणो दुष्टाः (तरन्ति) उल्लंघन्ते (देवानाम्) विदुषाम् (ओजः) बलपराक्रमः (प्रथमजम्) प्रथमे वयसि ब्रह्मचर्य्याश्रमे वा जातम् (हि) खलु (एतत्) (यः) (बिभर्त्ति) (दाक्षायणम्) दक्षेण चतुरेणाऽयनं प्रापणीयं तदेव स्वार्थेऽण् (हिरण्यम्) ज्योतिर्मयम् (सः) (देवेषु) विद्वत्सु (कृणुते) (दीर्घम्) लम्बमानम् (आयुः) जीवनम् (सः) (मनुष्येषु) मननशीलेषु (कृणुते) करोति (दीर्घम्) (आयुः)॥५१॥
Essence
ये प्रथमे वयसि दीर्घेण धर्म्येण ब्रह्मचर्येण पूर्णां विद्यामधीयते, न तेषां केचिच्चोरा न दायभागिनो न तेषां भारो भवति। य एवं विद्वांसो धर्म्येण वर्त्तन्ते ते विद्वत्सु मनुष्येषु च दीर्घमायुर्लब्ध्वा सततमानन्दन्त्यन्यानानन्दयन्ति च॥५१॥
Subject
अथ ब्रह्मचर्यप्रशंसाविषयमाह॥
Anvaya
हे मनुष्याः! यद्देवानां प्रथमजमोजोऽस्ति, न तद्रक्षांसि न पिशाचास्तरन्ति, यो ह्येतद् दाक्षायणं हिरण्यं बिभर्त्ति, स देवेषु दीर्घमायुः कृणुते, स मनुष्येषु दीर्घमायुः कृणुते॥५१॥