Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 50

58 Mantra
34/50
Devata- हिरण्यन्तेजो देवता Rishi- दक्ष ऋषिः Chhand- भुरिगुष्णिक् Swara- ऋषभः
Mantra with Swara
आ॒युष्यं वर्च्च॒स्यꣳ रा॒यस्पोष॒मौद्भि॑दम्।इ॒दꣳ हिर॑ण्यं॒ वर्च्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम्॥५०॥

आ॒यु॒ष्य᳖म्। व॒र्च॒स्य᳖म्। रा॒यः। पोष॑म्। औद्भि॑दम् ॥ इ॒दम्। हिर॑ण्यम्। वर्च॑स्वत्। जैत्रा॑य। आ। वि॒श॒ता॒त्। ऊँ॒ऽइत्यूँ॑। माम् ॥५० ॥

Mantra without Swara
आयुष्यँवर्चस्यँ रायस्पोषऔद्भिदम् । इदँ हिरण्यँवर्चस्वज्जैत्राया विशतादु माम् ॥

आयुष्यम्। वर्चस्यम्। रायः। पोषम्। औद्भिदम्॥ इदम्। हिरण्यम्। वर्चस्वत्। जैत्राय। आ। विशतात्। ऊँऽइत्यूँ। माम्॥५०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आयुष्यम्) आयुषे जीवनाय हितम् (वर्चस्यम्) वर्चसेऽध्ययनाय हितम् (रायः) (पोषम्) धनस्य पोषकम् (औद्भिदम्) उद्भिनत्ति दुःखानि येन तदेव (इदम्) (हिरण्यम्) तेजोमयं सुवर्णादिकम् (वर्चस्वत्) प्रशस्तानि वर्चांस्यन्नानि यस्मात् तत् (जैत्राय) जयाय (आ) (विशतात्) समन्तात् विशतु (उ) एव (माम्)॥५०॥
Essence
ये मनुष्याः स्वात्मवत् सर्वान् जानन्ति, विद्वद्भिः सह परामृश्य सत्याऽसत्ये निर्णयन्ति, ते दीर्घमायुः पूर्णविद्याः समग्रमैश्वर्यविजयं च प्राप्नुवन्ति॥५०॥
Subject
अथैश्वर्यजयादिसंपादनविषयमाह॥
Anvaya
हे मनुष्याः! यदौद्भिदमायुष्यं वर्चस्यं रायस्पोषं वर्चस्वद्धिरण्यं जैत्राय मामाविशतात् तदु युष्मानप्याविशत्॥५०॥