Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 48

58 Mantra
34/48
Devata- मरुतो देवताः Rishi- अगस्त्य ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ए॒ष व॒ स्तोमो॑ मरुतऽइ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः।एषा या॑सीष्ट त॒न्वे व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्॥४८॥

ए॒षः। वः॒। स्तोमः॑। म॒रु॒तः॒। इ॒यम्। गीः। मा॒न्दा॒र्यस्य॑। मा॒न्यस्य॑। का॒रोः ॥ आ। इ॒षा। या॒सी॒ष्ट॒। त॒न्वे᳖। व॒याम्। वि॒द्याम॑। इ॒षम्। वृ॒जन॑म्। जी॒रदा॑नु॒मिति॑ जी॒रऽदा॑नुम् ॥४८ ॥

Mantra without Swara
एष व स्तोमो मरुतऽइयङ्गीर्मान्दार्यस्य मान्यस्य कारोः । एषा यासीष्ट तन्वे वयाँविद्यामेषँवृजनठञ्जीरदानुम् ॥

एषः। वः। स्तोमः। मरुतः। इयम्। गीः। मान्दार्यस्य। मान्यस्य। कारोः॥ आ। इषा। यासीष्ट। तन्वे। वयाम्। विद्याम। इषम्। वृजनम्। जीरदानुमिति जीरऽदानुम्॥४८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एषः) (वः) युष्मभ्यम् (स्तोमः) प्रशंसा (मरुतः) मरणधर्माणो मनुष्याः (इयम्) (गीः) सुशिक्षिता वाक् (मान्दार्यस्य) प्रशस्तकर्मसेवकस्योदारचित्तस्य (मान्यस्य) मन्तुं सत्कर्त्तुं योग्यस्य (कारोः) कारुकस्य शिल्पिनः (आ) (इषा) इच्छयाऽन्नेन वा निमित्तेन (यासीष्ट) प्राप्नुयात् (तन्वे) शरीरादिरक्षणार्थम् (वयाम्) वयसामवस्थावतां प्राणिनाम्। अत्राऽऽमि टिलोपश्छान्दसः। (विद्याम) लभेमहि (इषम्) विज्ञानमन्नं वा (वृजनम्) वर्जन्ति दुःखानि येन तद्बलम् (जीरदानुम्) जीवयतीति जीरदानुस्तम्॥४८॥
Essence
मनुष्यैस्सदैव प्रशंसनीयानि कर्माणि सेवित्वा शिल्पविद्याविदः सत्कृत्य जीवनं बलमैश्वर्यं च प्राप्तव्यम्॥४८॥
Subject
पुनर्मनुष्याः किं कुर्युरित्याह॥
Anvaya
हे मरुतो मनुष्याः! मान्दार्यस्य मान्यस्य कारोरेष स्तोम इयं च गीर्वोऽस्तु, यूयमिषा वयां तन्वे आ यासीष्ट, जीरदानुमिषं वृजनं च विद्याम॥४८॥