Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 44

58 Mantra
34/44
Devata- विष्णुर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वासः॒ समि॑न्धते।विष्णो॒र्यत्प॑र॒मं प॒दम्॥४४॥

तत्। विप्रा॑सः। वि॒प॒न्यवः॑। जा॒गृ॒वास॒ इति॑ जागृ॒वासः॑। सम्। इ॒न्ध॒ते॒ ॥ विष्णोः॑। यत्। प॒र॒मम्। प॒दम् ॥४४ ॥

Mantra without Swara
तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते । विष्णोर्यत्परमम्पदम् ॥

तत्। विप्रासः। विपन्यवः। जागृवास इति जागृवासः। सम्। इन्धते॥ विष्णोः। यत्। परमम्। पदम्॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तत्) (विप्रासः) मेधाविनो योगिनः (विपन्यवः) विशेषेण स्तोतुमर्हा ईश्वरस्य वा स्तावकाः (जागृवांसः) अविद्यानिद्रात उत्थाय जागरूकाः (सम्) (इन्धते) प्रकाशयन्ति (विष्णोः) सर्वत्राऽभिव्यापकस्य (यत्) (परमम्) प्रकृष्टम् (पदम्) प्रापणीयं मोक्षप्रदं स्वरूपम्॥४४॥
Essence
ये योगाभ्यासादिना शुद्धन्तःकरणात्मानो धार्मिकाः पुरुषार्थिनो जनाः सन्ति, त एव व्यापकस्य परमेश्वरस्य स्वरूपं ज्ञातुं लब्धुं चार्हन्ति नेतरे॥४४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्या ये जागृवांसो विपन्यवो विप्रासो विष्णोर्यत्परमं पदमस्ति, तत्समिन्धते तत्सङ्गेन यूयमपि तादृशा भवत॥४४॥