Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 43

58 Mantra
34/43
Devata- विष्णुर्देवता Rishi- मेधातिथिर्ऋषिः Chhand- निचृद् गायत्री Swara- षड्जः
Mantra with Swara
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पाऽअदा॑भ्यः।अतो॒ धर्मा॑णि धा॒रय॑न्॥४३॥

त्रीणि॑। प॒दा। वि। च॒क्र॒मे॒। विष्णुः॑। गो॒पाः। अदा॑भ्यः ॥ अतः॑। धर्मा॑णि। धा॒रय॑न् ॥४३ ॥

Mantra without Swara
त्रीणि पदा वि चक्रमे विष्णुर्गोपाऽअदाभ्यः । अतो धर्माणि धारयन् ॥

त्रीणि। पदा। वि। चक्रमे। विष्णुः। गोपाः। अदाभ्यः॥ अतः। धर्माणि। धारयन॥४३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्रीणि) (पदा) पदानि ज्ञातुं प्रापयितुं वा योग्यानि कारणसूक्ष्मस्थूलरूपाणि (वि) (चक्रमे) विक्रमति (विष्णुः) वेवेष्टि व्याप्नोति चराऽचरं जगत् स परमेश्वरः (गोपाः) रक्षकः (अदाभ्यः) अहिंसकत्वाद् दयालुः (अतः) अस्मात् (धर्माणि) धर्मान् धारकाणि पृथिव्यादीनि वा (धारयन्)॥४३॥
Essence
हे मनुष्याः! येन परमेश्वरेण भूम्यन्तरिक्षसूर्य्यरूपेण त्रिविधं जगन्निर्मितम्, सर्वं ध्रियते रक्ष्यते च, स एवोपासनीय इष्टदेवोऽस्ति॥४३॥
Subject
अथेश्वरविषयमाह॥
Anvaya
हे मनुष्याः! योऽदाभ्यो गोपा विष्णुर्धर्माणि धारयन्नतस्त्रीणि पदा विचक्रमे, स एवाऽस्माकं पूजनीयोऽस्ति॥४३॥