Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 40

58 Mantra
34/40
Devata- उषा देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अश्वा॑वती॒र्गोम॑तीर्नऽउ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः।घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥४०॥

अश्वा॑वतीः। अश्व॑वती॒रित्यश्व॑ऽवतीः। गोम॑ती॒रिति॒ गोऽम॑तीः। नः॒। उ॒षासः॑। उ॒षस॒ऽइत्यु॒षसः॑। वी॒रवती॒रिति॑ वी॒रऽव॑तीः। सद॑म्। उ॒च्छ॒न्तु॒। भ॒द्राः ॥ घृ॒तम्। दुहा॑नाः। वि॒श्वतः॑। प्रपी॑ता॒ इति॒ प्रऽपी॑ताः। यू॒यम्। पा॒त॒। स्व॒स्तिभिः॑। सदा॑। नः॒ ॥४० ॥

Mantra without Swara
अश्वावतीर्गोमतीर्नऽउषासो वीरवतीः सदमुच्छन्तु भद्राः । घृतन्दुहाना विश्वतः प्रपीता यूयम्पात स्वस्तिभिः सदा नः ॥

अश्वावतीः। अश्ववतीरित्यश्वऽवतीः। गोमतीरिति गोऽमतीः। नः। उषासः। उषसऽइत्युषसः। वीरवतीरिति वीरऽवतीः। सदम्। उच्छन्तु। भद्राः॥ घृतम्। दुहानाः। विश्वतः। प्रपीता इति प्रऽपीताः। यूयम्। पात। स्वस्तिभिः। सदा। नः॥४०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अश्वावतीः) प्रशस्तान्यश्वानि व्याप्तिशीलान्युदकानि विद्यन्ते यासु ताः (गोमतीः) बहवो गावः किरणा विद्यन्ते यासु ताः (नः) अस्माकम् (उषासः) प्रभाताः (वीरवतीः) बहवो वीराः सन्ति यासु ताः (सदम्) सीदन्ति यस्मिँस्तत् (उच्छन्तु) विवसन्तु (भद्राः) भन्दनीयाः कल्याणकर्य्यः (घृतम्) शुद्धं प्रदीप्तमुदकम्। घृतमित्युदकनामसु पठितम्॥ (निघं॰१।१२) (दुहानाः) प्रपूर्य्यन्त्यः (विश्वतः) सर्वतः (प्रपीताः) प्रकर्षेण पीता वृद्धाः (यूयम्) (पात) रक्षत (स्वस्तिभिः) स्वास्थ्यप्रदैः सुखैः (सदा) (नः) अस्मान्॥४०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा प्रभातवेला जाग्रतां मनुष्याणां सौख्यप्रदा भवन्ति, तथा विदुष्यः स्त्रियः कुमारीणां विद्यार्थिनीनां कन्यानां विद्यासुशिक्षासौभाग्यं वर्द्धयित्वा सदैता आनन्दयन्तु॥४०॥
Subject
विदुष्यः किं कुर्युरित्याह॥
Anvaya
हे विदुष्यः स्त्रियो! यथाऽश्वावतीर्गोमतीर्वीरवतीर्भद्रा घृतं दुहाना विश्वतः प्रपीता उषासो नोऽस्माकं सदं प्राप्नुवन्ति, तथाऽस्माकं सदं भवन्त्य उच्छन्तु नोऽस्मान् यूयं स्वस्तिभिः सदा पात॥४०॥