Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 4

58 Mantra
34/4
Devata- मनो देवता Rishi- शिवसङ्कल्प ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑म्।येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥४॥

येन॑। इ॒दम्। भू॒तम्। भुव॑नम्। भ॒वि॒ष्यत्। परि॑गृहीत॒मिति॑ परि॑ऽगृहीतम्। अ॒मृते॑न। सर्व॑म् ॥ येन॑। य॒ज्ञः। ता॒यते॑। स॒प्तहो॒तेति॑ स॒प्तऽहो॒ता। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु॒ ॥४ ॥

Mantra without Swara
येनेदम्भूतम्भुवनम्भविष्यत्परिगृहीतममृतेन सर्वम्। येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु॥

येन। इदम्। भूतम्। भुवनम्। भविष्यत्। परिगृहीतमिति परिऽगृहीतम्। अमृतेन। सर्वम्॥ येन। यज्ञः। तायते। सप्तहोतेति सप्तऽहोता। तत्। मे। मनः। शिवसङ्कल्पमिति शिवऽसङ्कल्पम्। अस्तु॥४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(येन) मनसा (इदम्) वस्तुजातम् (भूतम्) अतीतम् (भुवनम्) भवतीति भुवनम्। वर्त्तमानकालस्य सम्बन्धि। औणादिकः क्युः। (भविष्यत्) यदुत्पत्स्यमानं भावि (परिगृहीतम्) परितः सर्वतो गृहीतं ज्ञातम् (अमृतेन) नाशरहितेन परमात्मना सह युक्तेन (सर्वम्) समग्रम् (येन) (यज्ञः) अग्निष्टोमादिविज्ञानमयो व्यवहारो वा (तायते) तन्यते विस्तीर्य्यते (सप्तहोता) अग्निष्टोमेऽपि सप्तहोतारो भवन्ति (तत्) (मे) मम (मनः) योगयुक्तं चित्तम् (शिवसङ्कल्पम्) शिवो मोक्षरूपसङ्कल्पो यस्य तत् (अस्तु) भवतु॥४॥
Essence
हे मनुष्याः! यच्चित्तं योगाभ्याससाधनोपसाधनसिद्धं भूतभविष्यद्वर्त्तमानज्ञं सर्वसृष्टिविज्ञातृ-कर्मोपासनाज्ञानसाधकं वर्त्तते, तत्सदैव कल्याणप्रियं कुरुत॥४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! येनामृतेन भूतं भुवनं भविष्यत् सर्वमिदं परिगृहीतं भवति, येन सप्तहोता यज्ञस्तायते, तन्मे मनः शिवसङ्कल्पमस्तु॥४॥