Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 38

58 Mantra
34/38
Devata- भगवान् देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
भग॑ऽए॒व भग॑वाँ२ऽअस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम।तं त्वा॑ भग॒ सर्व॒ऽइज्जो॑हवीति॒ स नो॑ भग पुरऽए॒ता भ॑वे॒ह॥३८॥

भगः॑। ए॒व। भग॑वा॒निति॒ भग॑ऽवान्। अ॒स्तु॒। दे॒वाः॒। तेन॑। व॒यम्। भग॑वन्त॒ इति॒ भग॑ऽवन्तः। स्या॒म॒ ॥ तम्। त्वा॒। भ॒ग॒। सर्वः॑। इत्। जो॒ह॒वी॒ति॒। सः। नः॒। भ॒ग॒। पु॒र॒ऽए॒तेति॑ पुरःऽए॒ता। भ॒व॒। इ॒ह ॥३८ ॥

Mantra without Swara
भगऽएव भगवाँऽअस्तु देवास्तेन वयम्भगवन्तः स्याम । तन्त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥

भगः। एव। भगवानिति भगऽवान्। अस्तु। देवाः। तेन। वयम्। भगवन्त इति भगऽवन्तः। स्याम॥ तम्। त्वा। भग। सर्वः। इत्। जोहवीति। सः। नः। भग। पुरऽएतेति पुरःऽएता। भव। इह॥३८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(भगः) भजनीयः सेवनीयः (एव) (भगवान्) प्रशस्तैश्वर्ययुक्तः (अस्तु) भवतु (देवाः) विद्वांसः (तेन) भगस्वरूपेण भगवता परमेश्वरेण सह (वयम्) (भगवन्तः) सकलशोभायुक्तः (स्याम) भवेम (तम्) (त्वा) त्वाम् (भग) अखिलशोभायुक्त! (सर्वः) अखिलो जनः (इत्) एव (जोहवीति) भृशमाह्वयति (सः) (नः) अस्माकम् (भग) सकलैश्वर्यप्रद! (पुरएता) यः पुरस्तातेति सः (भव) (इह)॥३८॥
Essence
हे मनुष्याः! यूयं यः सकलैश्वर्यसम्पन्नः परमेश्वरस्तेन ये चास्योपासका विद्वांसस्तैस्सह सिद्धाः श्रीमन्तश्च भवत। यो जगदीश्वरो मातापितृवदस्मासु कृपयति तद्भक्तिपुरःसरेणेह मनुष्यानैश्वर्यवतः सततं कुरुत॥३८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे देवाः! यो भग एव भगवानस्तु तेन वयं भगवन्तः स्याम। हे भग! तं त्वा सर्व इज्जोहवीति। भग! स त्वमिह नः पुरएता भव॥३८॥