Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 35

58 Mantra
34/35
Devata- भगो देवता Rishi- वसिष्ठ ऋषिः Chhand- निचृत्त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्त्ता।आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द् राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑॥३५॥

प्रा॒त॒र्जित॒मिति॑ प्रातः॒ऽजित॑म्। भग॑म्। उ॒ग्रम्। हु॒वे॒म॒। व॒यम्। पु॒त्रम्। अदि॑तेः। यः। वि॒ध॒र्त्तेति॑ विऽध॒र्त्ता ॥ आ॒ध्रः। चि॒त्। यम्। मन्य॑मानः। तु॒रः। चि॒त्। राजा॑। चि॒त्। यम्। भग॑म्। भ॒क्षि॒। इति॑। आह॑ ॥३५ ॥

Mantra without Swara
प्रातर्जितम्भगमुग्रँ हुवेम वयम्पुत्रमदितेर्या विधर्ता । आध्रश्चिद्यम्मन्यमानस्तुरश्चिद्राजा चिद्यम्भगम्भक्षीत्याह ॥

प्रातर्जितमिति प्रातःऽजितम्। भगम्। उग्रम्। हुवेम। वयम्। पुत्रम्। अदितेः। यः। विधर्त्तेति विऽधर्त्ता॥ आध्रः। चित्। यम्। मन्यमानः। तुरः। चित्। राजा। चित्। यम्। भगम्। भक्षि। इति। आह॥३५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्रातः) प्रभाते (जितम्) स्वपुरुषार्थेन लब्धम् (भगम्) ऐश्वर्य्यम् (उग्रम्) अत्युत्कृष्टम् (हुवेम) गृह्णीयाम (वयम्) (पुत्रम्) (अदितेः) अविनाशिनः कारणस्येव मातुः (यः) (विधर्त्ता) यो विविधान् पदार्थान् धरति सः (आध्रः) अपुत्रस्य पुत्रः (चित्) अपि (यम्) (मन्यमानः) विजानन् (तुरः) त्वरमाणः (चित्) अपि (राजा) राजमानः (चित्) (यम्) (भगम्) ऐश्वर्यम् (भक्षि) सेवस्व (इति) अनेन प्रकारेण (आह) परमेश्वर उपदिशति॥३५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! युष्माभिः सदा प्रातरारभ्य शयनपर्यन्तं यथाशक्ति सामर्थ्येन विद्यया पुरुषार्थेनैश्वर्योन्नतिं विधायाऽऽनन्दो भोक्तव्यो दरिद्रेभ्यः सुखं देयमित्याहेश्वरः॥३५॥
Subject
मनुष्या ऐश्वर्य्यं सम्पादयेयुरित्याह॥
Anvaya
हे मनुष्याः! यथा वयं प्रातर्यो विधर्त्ता आध्रश्चिद्यं मन्यमानस्तुरश्चिद् राजाऽस्ति, यं भगं चिद्भक्षीत्याह, तमदितेः पुत्रं जितमुग्रं भगं हुवेम, तथा यूयमपि स्वीकुरुत॥३५॥