Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 33

58 Mantra
34/33
Devata- उषर्देवता Rishi- गोतम ऋषिः Chhand- निचृत परोष्णिक् Swara- ऋषभः
Mantra with Swara
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति।येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे॥३३॥

उषः॑। तत्। चि॒त्रम्। आ। भ॒र॒। अ॒स्मभ्य॑म्। वा॒जि॒नी॒व॒तीति॑ वाजिनीऽवति ॥ येन॑। तो॒कम्। च॒। तन॑यम्। च॒। धाम॑हे ॥३३ ॥

Mantra without Swara
उषस्तच्चित्रमाभरास्मभ्यँवाजिनीवति । येन तोकञ्च तनयञ्च धामहे ॥

उषः। तत्। चित्रम्। आ। भर। अस्मभ्यम्। वाजिनीवतीति वाजिनीऽवति॥ येन। तोकम्। च। तनयम्। च। धामहे॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उषः) उषोवद्वर्त्तमाने (तत्) (चित्रम्) अद्भुतस्वरूपम् (आ) (भर) पोषय (अस्मभ्यम्) (वाजिनीवति) बह्वन्नाद्यैश्वर्य्ययुक्ते (येन) (तोकम्) सद्यो जातमपत्यम् (च) (तनयम्) प्राप्तकुमारावस्थम् (च) (धामहे) धरेम॥३३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा सर्वशोभायुक्ता मङ्गलप्रदा प्रभातवेला सर्वव्यवहारधारिका वर्त्तते, तथाभूताः स्त्रियो यदि स्युस्तर्हि ताः सदा स्वं पतिं प्रसाद्य पुत्रपौत्रादिना आनन्दं लभेरन्॥३३॥
Subject
पुनरुषो वर्णनमुपदिश्यते॥
Anvaya
हे वाजिनीवत्युषर्वद्वर्त्तमाने स्त्रि! यथा वाजिनीवत्युषा यादृशं चित्रं स्वरूपं धरति, तत् तादृशमस्मभ्यं त्वामाभर, येन वयं तोकं च तनयं च धामहे॥३३॥