Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 32

58 Mantra
34/32
Devata- रात्रिर्देवता Rishi- कुत्स ऋषिः Chhand- पथ्या बृहती Swara- मध्यमः
Mantra with Swara
आ रा॑त्रि॒ पार्थि॑व॒ꣳ रजः॑ पि॒तुर॑प्रायि॒ धाम॑भिः।दि॒वः सदा॑सि बृह॒ती वि ति॑ष्ठस॒ऽआ त्वे॒षं व॑र्त्तते॒ तमः॑॥३२॥

आ। रा॒त्रि॒। पार्थि॑वम्। रजः॑। पि॒तुः। अ॒प्रा॒यि॒। धाम॑भि॒रिति॒ धाम॑ऽभिः ॥ दि॒वः। सदा॑सि। बृ॒ह॒ती। वि। ति॒ष्ठ॒से॒। आ। त्वे॒षम्। व॒र्त्त॒ते॒। तमः॑ ॥३२ ॥

Mantra without Swara
आ रात्रि पर्थिवँ रजः पितुरप्रायि धामभिः । दिवः सदाँसि बृहती वि तिष्ठस आ त्वेषँवर्तते तमः ॥

आ। रात्रि। पार्थिवम्। रजः। पितुः। अप्रायि। धामभिरिति धामऽभिः॥ दिवः। सदासि। बृहती। वि। तिष्ठसे। आ। त्वेषम्। वर्त्तते। तमः॥३२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) समन्तात् (रात्रि) रात्रिः। अत्र लिङ्गव्यत्ययः। (पार्थिवम्) पृथिव्याः सम्बन्धि (रजः) लोकः (पितुः) मध्यलोकस्य (अप्रायि) पूर्य्यन्ते (धामभिः) सर्वैः स्थानैः (दिवः) प्रकाशस्य (सदांसि) सीदन्ति येषु तान्यधिकरणानि (बृहती) महती (वि) (तिष्ठसे) तिष्ठते, आक्रमते, व्याप्नोति (आ) (त्वेषम्) स्वकान्त्या प्रकृष्टम् (वर्त्तते) (तमः) अन्धकारः॥३२॥
Essence
हे मनुष्याः! या पृथिव्यादेश्छाया रात्रौ प्रकाशं निरोधयति, सर्वमावृणोति तां यथावत् सेवन्ताम्॥३२॥
Subject
अथ रात्रिवर्णनमाह॥
Anvaya
हे मनुष्याः! या बृहती रात्रि दिवः सदांसि वितिष्ठसे, यया पितुर्धामभिः पार्थिवं रज आ अप्रायि, यस्याश्च त्वेषं तम आ वर्त्तते, तां युक्त्या सेवध्वम्॥३२॥