Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 30

58 Mantra
34/30
Devata- अश्विनौ देवते Rishi- कुत्स ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः।तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वीऽउ॒त द्यौः॥३०॥

द्युभि॒रिति॒ द्युऽभिः॑। अ॒क्तुभि॒रित्य॒क्तुऽभिः॑। परि॑। पा॒त॒म्। अ॒स्मान्। अरि॑ष्टेभिः। अ॒श्वि॒ना॒। सौभ॑गेभिः ॥ तत्। नः॒। मि॒त्रः। वरु॑णः। मा॒म॒ह॒न्ता॒म्। अदि॑तिः। सिन्धुः॑। पृ॒थि॒वी। उ॒त। द्यौः ॥३० ॥

Mantra without Swara
द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीऽउत द्यौः ॥

द्युभिरिति द्युऽभिः। अक्तुभिरित्यक्तुऽभिः। परि। पातम्। अस्मान्। अरिष्टेभिः। अश्विना। सौभगेभिः॥ तत्। नः। मित्रः। वरुणः। मामहन्ताम्। अदितिः। सिन्धुः। पृथिवी। उत। द्यौः॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(द्युभिः) दिवसैः (अक्तुभिः) रात्रिभिः (परि) सर्वतः (पातम्) रक्षतम् (अस्मान्) (अरिष्टेभिः) अहिंसितैः (अश्विना) सभासेनेशौ! (सौभगेभिः) श्रेष्ठानां धनानां भावैः (तत्) तान् (नः) अस्मान् (मित्रः) सखा (वरुणः) दुष्टानां बन्धकः (मामहन्ताम्) सत्कुर्वन्तु (अदितिः) पृथिवी (सिन्धुः) सप्तविधः समुद्रः (पृथिवी) अन्तरिक्षम् (उत) अपि (द्यौः) प्रकाशः॥३०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे सभाधीशादिविद्वांसो! यथा पृथिव्यादीनि तत्त्वानि प्राणिनो रक्षन्ति, तथैव वर्द्धमानैरैश्वर्यैरहर्निशं सर्वान् मनुष्यान् वर्द्धयन्तु॥३०॥
Subject
अथ सभासेनाधिपौ किं कुर्यातामित्याह॥
Anvaya
हे अश्विना! यथाऽदितिः सिन्धुः पृथिवी उत द्यौस्तन्नो मामहन्ताम्, तथा मित्रो वरुणश्च युवां द्युभिरक्तुभिररिष्टेभिः सौभगेभिरस्मान् परिपातम्॥३०॥