Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 29

58 Mantra
34/29
Devata- अश्विनौ देवते Rishi- कुत्स ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम्।अ॒द्यूत्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ॥२९॥

अप्न॑स्वतीम्। अ॒श्वि॒ना॒। वाच॑म्। अ॒स्मेऽइत्य॒स्मे। कृ॒तम्। नः॒। द॒स्रा॒। वृ॒ष॒णा॒। म॒नी॒षाम् ॥अ॒द्यू॒त्ये। अव॑से। नि। ह्व॒ये॒। वा॒म्। वृ॒धे। च॒। नः॒। भ॒व॒त॒म्। वाज॑साता॒विति॒ वाज॑ऽसातौ ॥२९ ॥

Mantra without Swara
अप्नस्वतीमश्विना वाचमस्मे कृतन्नो दस्रा वृषणा मनीषाम् । अद्यूत्ये वसे नि ह्वये वाँवृधे च नो भवतँवाजसातौ ॥

अप्नस्वतीम्। अश्विना। वाचम्। अस्मेऽइत्यस्मे। कृतम्। नः। दस्रा। वृषणा। मनीषाम्॥अद्यूत्ये। अवसे। नि। ह्वये। वाम्। वृधे। च। नः। भवतम्। वाजसाताविति वाजऽसातौ॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अप्नस्वतीम्) प्रशस्तान्यप्नांसि कर्माणि विद्यन्ते यस्यास्ताम् (अश्विना) सकलविद्याव्यापिना-वध्यापकोपदेशकौ! (वाचम्) वाणीम् (अस्मे) अस्माकम् (कृतम्) कुरुतम् (नः) अस्माकम् (दस्रा) दुःखोपक्षयितारौ (वृषणा) सुखस्य वर्षयितारौ (मनीषाम्) उत्तमां प्रज्ञाम् (अद्यूत्ये) अविद्यमानानि द्यूतानि यस्मिंस्तस्मिन् भवे (अवसे) रक्षणाय (नि, ह्वये) नितरां स्तौमि (वाम्) युवाम् (वृधे) वर्द्धनाय (च) (नः) अस्माकम् (भवतम्) (वाजसातौ) वाजस्य धनस्य विभाजके सङ्ग्रामे॥२९॥
Essence
ये मनुष्या निष्कपटानाप्तान् दयालून् विदुषः सततं सेवन्ते, ते प्रगल्भा धार्मिका विद्वांसो भूत्वा सर्वतो वर्द्धमाना विजयिनः सन्तः सर्वेभ्यः सुखदा भवन्ति॥२९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे दस्रा वृषणाऽश्विना! युवामस्मे वाचं मनीषां चाप्नस्वतीं कृतं नोऽद्यूत्येऽवसे स्थापयतम्। वाजसातौ नो वृधे च भवतं यौ वामहन्निह्वये तौ मामुन्नयतम्॥२९॥