Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 27

58 Mantra
34/27
Devata- सविता देवता Rishi- आङ्गिरसो हिरण्यस्तूप ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ताऽअ॒न्तरि॑क्षे।तेभि॑र्नोऽअ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ऽअधि॑ च ब्रूहि देव॥२७॥

ये। ते॒। पन्थाः॑। स॒वि॒त॒रिति॑ सवितः। पू॒र्व्यासः॑। अ॒रे॒णवः॑। सुकृ॑ता॒ इति॒॑ सुऽकृ॑ताः। अ॒न्तरि॑क्षे ॥ तेभिः। नः॒। अ॒द्य। प॒थिभि॒रति॑ प॒थिऽभिः॑। सु॒गेभि॒रिति॑ सु॒ऽगेभिः। रक्षा॑। च॒। नः॒। अधि॑। च॒। ब्रू॒हि॒। दे॒व॒ ॥२७ ॥

Mantra without Swara
ये ते पन्थाः सवितः पूर्व्यासो रेणवः सुकृताऽअन्तरिक्षे । तेभिर्नाऽअद्य पथिभिः सुगेभी रक्षा च नोऽअधि च ब्रूहि देव ॥

ये। ते। पन्थाः। सवितरिति सवितः। पूर्व्यासः। अरेणवः। सुकृता इति सुऽकृताः। अन्तरिक्षे॥ तेभिः। नः। अद्य। पथिभिरति पथिऽभिः। सुगेभिरिति सुऽगेभिः। रक्षा। च। नः। अधि। च। ब्रूहि। देव॥२७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(ये) (ते) तव (पन्थाः) मार्गाः। अत्र वचनव्यत्ययेनैकवचनम्। (सवितः) सवितृवदैश्वर्यप्रद (पूर्व्यासः) पूर्वैराप्तैः सेविताः (अरेणवः) अविद्यमाना रेणवो येषु ते (सुकृताः) सुष्ठु निष्पादिताः (अन्तरिक्षे) आकाशे (तेभिः) तैः (नः) अस्मान् (अद्य) इदानीम् (पथिभिः) मार्गैः (सुगेभिः) सुखेन गमनाऽधिकरणैः (रक्ष) अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (च) (नः) अस्मान् (अधि) उपरिभावे (च) (ब्रूहि) उपदिश (देव) सुखविद्ययोर्दातः॥२७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो! युष्माभिर्यथा सूर्यास्याऽन्तरिक्षे निर्मलाः मार्गाः सन्ति, तथैवोपदेशाध्यापनाभ्यां विद्याधर्मसुशीलप्रदाः पन्थानः प्रचारणीयाः॥२७॥
Subject
अथाध्यापकोपदेशकविषयमाह॥
Anvaya
हे सवितर्देवाऽऽप्तविद्वन्! यस्य ते सूर्यस्यान्तरिक्षे इव ये पूर्व्यासोऽरेणवः सुकृताः पन्थाः सन्ति, तेभिस्सुगेभिः पथिभिरद्य नो नय, तत्र गच्छतो नो रक्ष च नोऽस्मांश्चाधि ब्रूहि। एवं सर्वान् प्रति बोधय॥२७॥