Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 26

58 Mantra
34/26
Devata- सविता देवता Rishi- आङ्गिरसो हिरण्यस्तूप ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
हिर॑ण्यहस्तो॒ऽअसु॑रः सुनी॒थः सु॑मृडी॒कः स्ववाँ॑ यात्व॒र्वाङ्।अ॒प॒सेध॑न् र॒क्षसो॑ यातु॒धाना॒नस्था॑द् दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः॥२६॥

हिर॑ण्यहस्त॒ इति॒ हिर॑ण्यऽहस्तः। असु॑रः। सु॒नी॒थ इति॑ सुऽनी॒थः। सु॒मृ॒डी॒क इति॑ सुमृडी॒कः। स्ववा॒निति॒ स्वऽवा॑न्। या॒तु॒। अ॒र्वाङ् ॥ अ॒प॒सेध॒न्नित्य॑प॒ऽसेध॑न्। र॒क्षसः॑। या॒तु॒धाना॒निति॑ यातु॒ऽधाना॑न्। अस्था॑त्। दे॒वः। प्र॒ति॒दो॒षमिति॑ प्रतिऽदो॒षम्। गृ॒णा॒नः ॥२६ ॥

Mantra without Swara
हिरण्यहस्तोऽअसुरः सुनीथः सुमृडीकः स्ववा यात्वर्वाङ् । अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषङ्गृणानः ॥

हिरण्यहस्त इति हिरण्यऽहस्तः। असुरः। सुनीथ इति सुऽनीथः। सुमृडीक इति सुमृडीकः। स्ववानिति स्वऽवान्। यातु। अर्वाङ्॥ अपसेधन्नित्यपऽसेधन्। रक्षसः। यातुधानानिति यातुऽधानान्। अस्थात्। देवः। प्रतिदोषमिति प्रतिऽदोषम्। गृणानः॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(हिरण्यहस्तः) हिरण्यानि ज्योतींषि हस्तवद् यस्य सः (असुरः) प्रक्षेप्ता (सुनीथः) यः सुष्ठु नयति सः (सुमृडीकः) सुष्ठु सुखकरः (स्ववान्) स्वे स्वकीयाः प्रकाशादयो गुणा विद्यन्ते यस्मिन् सः। अत्र दीर्घादटि समानपादे॥ (अष्टा॰८।३।९) रुत्वे भोभगो॰ [अ॰८.३.१७] इत्यनेन रोर्यादेशे च हलि सर्वेषाम् [अ॰८.३.२२] इति लोपः। (यातु) प्राप्नोतु (अर्वाङ्) योऽर्वाचीनान् अञ्चति प्राप्नोति सः (अपसेधन्) दूरीकुर्वन् (रक्षसः) दस्युचोरादीन् (यातुधानान्) अन्यायेन परपदार्थधारकान् (अस्थात्) उत्तिष्ठति उदेति (देवः) प्रकाशकः (प्रतिदोषम्) प्रतिजनं यो दोषस्तम्। अत्रोत्तरपदलोपः। (गृणानः) उच्चरयन् प्रकटयन्॥२६॥
Essence
हे मनुष्याः! सदैवौदार्येण याचमानेभ्यो हिरण्यादिकं दत्त्वा दुष्टाचारान् तिरस्कृत्य धार्मिकेभ्यः सुखं प्रदायाऽहर्निशं सूर्यवत् प्रशंसिता भवत॥२६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यो हिरण्यहस्तः सुनीथोऽसुरः सुमृडीकः स्ववान् देवो रक्षसो यातुधानानपसेधन् प्रतिदोषं गृणानश्चास्थात्, सोऽर्वाङस्मत् सुखाय यातु, तद्वद्यूयं भवत॥२६॥