Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 25

58 Mantra
34/25
Devata- सविता देवता Rishi- आङ्गिरसो हिरण्यस्तूप ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वीऽअ॒न्तरी॑यते।अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति॥२५॥

हिर॑ण्यपाणि॒रिति॒ हिर॑ण्यऽपाणिः। स॒वि॒ता। विच॑र्षणि॒रिति॒ विऽच॑र्षणिः। उ॒भेऽइ॒त्यु॒भे। द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी। अ॒न्तः। ई॒य॒ते॒ ॥ अप॑। अमी॑वाम्। बाध॑ते। वेति। सूर्य्य॑म्। अ॒भि। कृ॒ष्णेन॑। रज॑सा। द्याम्। ऋ॒णो॒ति॒ ॥२५ ॥

Mantra without Swara
हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवीऽअन्तरीयते । अपामीवाम्बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥

हिरण्यपाणिरिति हिरण्यऽपाणिः। सविता। विचर्षणिरिति विऽचर्षणिः। उभेऽइत्युभे। द्यावापृथिवी इति द्यावापृथिवी। अन्तः। ईयते॥ अप। अमीवाम्। बाधते। वेति। सूर्य्यम्। अभि। कृष्णेन। रजसा। द्याम्। ऋणोति॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(हिरण्यपाणिः) हिरण्यं ज्योतिः पाणिरिव यस्य सः (सविता) ऐश्वर्यप्रदः (विचर्षणिः) विशेषेण दर्शकः (उभे) (द्यावापृथिवी) प्रकाशभूमी (अन्तः) मध्ये (ईयते) प्राप्य गच्छति (अप) दूरीकरणे (अमीवाम्) व्याधिरूपमन्धकारम् (बाधते) दूरीकरोति (वेति) अस्तमेति (सूर्य्यम्) सवितृलोकः। अत्र विभक्तिव्यत्ययः। (अभि) सर्वतः (कृष्णेन) कृष्णवर्णेन (रजसा) अन्धकारलक्षणेन (द्याम्) (ऋणोति) गच्छति प्राप्नोति। ऋणोतीति गतिकर्मा॥ (निघं॰२।१४)॥२५॥
Essence
हे मनुष्याः! यथा सूर्य्यः सन्निहिताँल्लोकानाकृष्य धरति, तथैवाऽनेकलोकाऽलंकृतं सूर्य्यादिकं सर्वं जगदभिव्याप्याऽऽकृष्येश्वरो दधातीति यूयं विजानीत। नहीश्वरमन्तरेण सर्वस्य विधाता धर्ता अन्यः कश्चित् सम्भवितुमर्हति॥२५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यो हिरण्यपाणिर्विचर्षणिः सविता सूर्य्यं यदोभे द्यावापृथिवी अन्तरीयते, तदाऽमीवामपबाधते, यदा च वेति तदा कृष्णेन रजसा द्यामाभि ऋणोति तं यूयं विजानीत॥२५॥