Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 22

58 Mantra
34/22
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- विराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
त्वमि॒माऽओष॑धीः सोम॒ विश्वा॒स्त्वम॒पोऽअ॑जनय॒स्त्वं गाः।त्वमा त॑तन्थो॒र्वन्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो॑ ववर्थ॥२२॥

त्वम्। इ॒माः। ओष॑धीः। सो॒म॒। विश्वाः॑। त्वम्। अ॒पः। अ॒ज॒न॒यः॒। त्वम्। गाः ॥ त्वम्। आ। त॒त॒न्थ॒। उ॒रु। अ॒न्तरि॑क्षम्। त्वम्। ज्योति॑षा। वि। तमः॑। ववर्थ॒ ॥२२ ॥

Mantra without Swara
त्वमिमाऽओषधीः सोम विश्वास्त्वमपोऽअजनयस्त्वङ्गाः । त्वमाततन्थोर्वन्तरिक्षन्त्वञ्ज्योतिषा वि तमो ववर्थ ॥

त्वम्। इमाः। ओषधीः। सोम। विश्वाः। त्वम्। अपः। अजनयः। त्वम्। गाः॥ त्वम्। आ। ततन्थ। उरु। अन्तरिक्षम्। त्वम्। ज्योतिषा। वि। तमः। ववर्थ॥२२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (इमाः) (ओषधीः) सोमाद्याः (सोम) सोमवल्लीव सर्वरोगविनाशक! (विश्वाः) सर्वाः (त्वम्) (अपः) जलानि कर्म वा (अजनयः) जनयेः (त्वम्) (गाः) पृथिवीर्धेनूर्वा (त्वम्) (आ) (ततन्थ) तनोषि (उरु) बहु (अन्तरिक्षम्) जलमाकाशं वा (त्वम्) (ज्योतिषा) प्रकाशेन (वि) (तमः) अन्धकारं रात्रिम् (ववर्थ) वृणोषि॥२२॥
Essence
ये जना ओषध्यो रोगानिव दुःखानि हरन्ति, प्राणा इव बलं जनयन्ति, ये राजजनाः सूर्य्यो रात्रिमिवाऽधर्माऽविद्याऽन्धकारं निवर्त्तयन्ति, ते जगत्पूज्याः कुतो न स्युः॥२२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सोम राजन्! यस्त्वं विश्वा इमा ओषधीस्त्वं सूर्य इवाऽपस्त्वं गाश्चाऽजनयस्त्वं सूर्य्य उर्वन्तरिक्षमा ततन्थ, सविता ज्योतिषा तम इव न्यायेनाऽन्यायं विववर्थ, स त्वस्माभिर्माननीयोऽसि॥२२॥