Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 21

58 Mantra
34/21
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
सोमो॑ धे॒नुꣳ सोमो॒ऽअर्व॑न्तमा॒शुꣳ सोमो॑ वी॒रं क॑र्म॒ण्यं ददाति।सा॒द॒न्यं विद॒थ्यꣳ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै॥२१॥

सोमः॑। धे॒नुम्। सोमः॑। अर्व॑न्तम्। आ॒शुम्। सोमः॑। वी॒रम्। क॒र्म॒ण्य᳖म्। ददा॑ति ॥ सा॒द॒न्य᳖म्। स॒द॒न्य᳖मिति॑ सद॒न्य᳖म्। वि॒द॒थ्य᳖म्। स॒भेय॑म्। पि॒तृ॒श्रव॑ण॒मिति॑ पितृ॒ऽश्रव॑णम्। यः। ददा॑शत्। अ॒स्मै॒ ॥२१ ॥

Mantra without Swara
सोमो धेनुँ सोमोऽअर्वन्तमाशुँ सोमो वीरङ्कर्मण्यन्ददाति । सादन्यँविदथ्यँ सभेयम्पितृश्रवणँयो ददाशदस्मै ॥

सोमः। धेनुम्। सोमः। अर्वन्तम्। आशुम्। सोमः। वीरम्। कर्मण्यम्। ददाति॥ सादन्यम्। सदन्यमिति सदन्यम्। विदथ्यम्। सभेयम्। पितृश्रवणमिति पितृऽश्रवणम्। यः। ददाशत्। अस्मै॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सोमः) ऐश्वर्यवान् (धेनुम्) विद्याधारां वाचम् (सोमः) सत्याचारे प्रेरकः (अर्वन्तम्) वेगेन गच्छन्तमश्वम् (आशुम्) मार्गान् सद्योऽश्नुवन्तम् (सोमः) शरीरात्मबलम् (वीरम्) शत्रुबलानि व्याप्नुवन्तम् (कर्मण्यम्) कर्मणा सम्पन्नम् (ददाति) (सादन्यम्) सादनेषु स्थापनेषु साधुं (विदथ्यम्) विदथे यज्ञे साधुम् (सभेयम्) सभायां साधुम् (पितृश्रवणम्) पितुः सकाशाच्छ्रवणं यस्य तम् (यः) (ददाशत्) ददाति (अस्मै) सोमाय राज्ञेऽध्यापकायोपदेशकाय वा॥२१॥
Essence
येऽध्यापकोपदेशका राजपुरुषा वा सुशिक्षिता वाचमग्न्यादितत्त्वविद्यां पुरुषज्ञानं सभ्यताञ्च सर्वेभ्यः प्रदद्युस्ते सर्वेः सत्कर्त्तव्याः स्युः॥२१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यो मनुष्योऽस्मै सोमायोचितं ददाशत् तस्मै सोमो धेनुं ददाति, सोमोऽर्वन्तमाशुं ददाति, सोमः कर्मण्यं सादन्यं विदथ्यं पितृश्रवणं सभेयं वीरं च ददाति॥२१