Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 20

58 Mantra
34/20
Devata- सोमो देवता Rishi- गोतम ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अषा॑ढं यु॒त्सु पृत॑नासु॒ पप्रि॑ꣳ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम्।भ॒रे॒षु॒जा सु॑क्षि॒तिꣳ सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम॥२०॥

अषा॑ढम्। यु॒त्स्विति॑ यु॒त्ऽसु। पृत॑नासु। पप्रि॑म्। स्व॒र्षाम्। स्वःसामिति॑ स्वः॒ऽसाम्। अ॒प्साम्। वृ॒जन॑स्य। गो॒पाम् ॥ भ॒रे॒षु॒जामिति॑ भरेषु॒ऽजाम्। सु॒क्षि॒तिमिति॑ सुऽक्षि॒तिम्। सु॒श्रव॑स॒मिति॑ सु॒ऽश्रव॑सम्। जय॒न्तम्। त्वाम्। अनु॑ म॒दे॒म॒। सो॒म॒ ॥२० ॥

Mantra without Swara
अषाढँयुत्सु पृतनासु पप्रिँ स्वर्षामप्साँ वृजनस्य गोपाम् । भरेषुजाँ सुक्षितिँ सुश्रवसञ्जयन्तं त्वामनु मदेम सोम ॥

अषाढम्। युत्स्विति युत्ऽसु। पृतनासु। पप्रिम्। स्वर्षाम्। स्वःसामिति स्वःऽसाम्। अप्साम्। वृजनस्य। गोपाम्॥ भरेषुजामिति भरेषुऽजाम्। सुक्षितिमिति सुऽक्षितिम्। सुश्रवसमिति सुऽश्रवसम्। जयन्तम्। त्वाम्। अनु मदेम। सोम॥२०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अषाढम्) सोढुमनर्हम् (युत्सु) युद्धेषु (पृतनासु) मनुष्यसेनासु (पप्रिम्) पूर्णबलविद्यं पालकं वा (स्वर्षाम्) यः स्वः सुखं सनति सम्भजति तम् (अप्साम्) योऽपो जलानि प्राणान् सनोति ददाति तम् (वृजनस्य) बलस्य (गोपाम्) रक्षकम् (भरेषुजाम्) भरेषु भरणीयेषु सङ्ग्रामेषु जेतारम् (सुक्षितिम्) शोभना क्षितिः पृथिवीराज्यं यस्य तम्। क्षितिरिति पृथिवीनामसु पठितम्॥ (निघं॰१।१) (सुश्रवसम्) शोभनानि श्रवांस्यन्नानि यशांसि वा यस्य तम्। (जयन्तम्) शत्रूणां विजेतारम् (त्वाम्) (अनु) पश्चात् (मदेम) (सोम) सकलैश्वर्यसम्पन्न!॥२०॥
Essence
यस्य राज्ञः सेनापतेर्वोत्तमस्वभावेन राजसेनाः प्रजाजनाः प्रीताः स्युर्येषु प्रीतेषु राजा प्रीतः स्यात्, तत्र ध्रुवो विजयो निश्चलं परमैश्वर्य्यं पुष्कला प्रतिष्ठा च भवति॥२०॥
Subject
अथ राजधर्मविषयमाह॥
Anvaya
हे सोम राजन् सेनापते वा! वयं यं युत्स्वषाढं पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपां भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम॥२०॥