Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 2

58 Mantra
34/2
Devata- मनो देवता Rishi- शिवसङ्कल्प ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
येन॒ कर्मा॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑।यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२॥

येन॑। कर्मा॑णि। अ॒पसः॑। म॒नी॒षिणः॑। य॒ज्ञे। कृ॒ण्वन्ति॑। वि॒दथे॑षु। धीराः॑ ॥ यत्। अ॒पू॒र्वम्। य॒क्षम्। अ॒न्तरित्य॒न्तः। प्र॒जाना॒मिति॑ प्र॒ऽजाना॑म्। तत्। मे॒। मनः॑। शि॒वस॑ङ्कल्प॒मिति॑ शि॒वऽस॑ङ्कल्पम्। अ॒स्तु ॥२ ॥

Mantra without Swara
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः। यदपूर्वँयक्षमन्तः प्रजानान्तन्मे मनः शिवसङ्कल्पमस्तु॥

येन। कर्माणि। अपसः। मनीषिणः। यज्ञे। कृण्वन्ति। विदथेषु। धीराः॥ यत्। अपूर्वम्। यक्षम्। अन्तरित्यन्तः। प्रजानामिति प्रऽजानाम्। तत्। मे। मनः। शिवसङ्कल्पमिति शिवऽसङ्कल्पम्। अस्तु॥२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(येन) मनसा (कर्माणि) कर्त्तुरीप्सिततमानि क्रियमाणानि (अपसः) अपः कर्म तद्वन्तः सदा कर्मनिष्ठाः (मनीषिणः) मनस ईषिणो दमनकर्त्तारः (यज्ञे) अग्निहोत्रादौ धर्मेण सङ्गतव्यवहारे योगाभ्यासे वा (कृण्वन्ति) कुर्वन्ति (विदथेषु) विज्ञानयुद्धादिव्यवहारेषु (धीराः) ध्यानवन्तो मेधाविनः। धीर इति मेधाविनामसु पठितम्॥ (निघं॰३।१५) (यत्) (अपूर्वम्) अनुत्तमगुणकर्मस्वभावम् (यक्षम्) पूजनीयं सङ्गतं वा। अत्रौणादिकः सन् प्रत्ययः। (अन्तः) मध्ये (प्रजानाम्) प्राणिमात्राणाम् (तत्) (मे) मम (मनः) मननविचारात्मकम् (शिवसङ्कल्पम्) धर्मेष्टम् (अस्तु)॥२॥
Essence
मनुष्यैः परमेश्वरस्योपासनेन सुविचारविद्यासत्सङ्गैरन्तःकरणधर्माचारान्निवर्त्य धर्माचारे प्रवर्त्तनीयम्॥२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे परमेश्वर वा विद्वन्! भवत्सङ्गेन येनापसो मनीषिणो धीरा यज्ञे विदथेषु च कर्माणि कृण्वन्ति यदपूर्वं प्रजानामन्तर्यक्षं वर्त्तते, तन्मे मनः शिवसङ्कल्पमस्तु॥२॥