Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 19

58 Mantra
34/19
Devata- इन्द्रो देवता Rishi- देवश्रवा देववातश्च भारतावृषी Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
न ते॑ दू॒रे प॑र॒मा चि॒द् रजा॒स्या तु प्र या॑हि हरिवो॒ हरि॑भ्याम्।स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा॑णः समिधा॒नेऽअ॒ग्नौ॥१९॥

न। ते॒। दू॒रे। प॒र॒मा। चि॒त्। रजा॑सि। आ। तु। प्र। या॒हि॒। ह॒रि॒व॒ इति॑ हरि॒ऽवः। हरि॑भ्या॒मिति॒ हरि॑ऽभ्याम् ॥ स्थि॒राय॑। वृष्णे॑। सव॑ना। कृ॒ता। इ॒मा। यु॒क्ता। ग्रावा॑णः स॒मि॒धा॒न इति॑ सम्ऽइधा॒ने। अ॒ग्नौ ॥१९ ॥

Mantra without Swara
न ते दूरे परमा चिद्रजाँस्यस्या तु प्र याहि हरिवो हरिभ्याम् । स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधानेऽअग्नौ ॥

न। ते। दूरे। परमा। चित्। रजासि। आ। तु। प्र। याहि। हरिव इति हरिऽवः। हरिभ्यामिति हरिऽभ्याम्॥ स्थिराय। वृष्णे। सवना। कृता। इमा। युक्ता। ग्रावाणः समिधान इति सम्ऽइधाने। अग्नौ॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(न) निषेधे (ते) तव सकाशात् (दूरे) विप्रकृष्टे (परमा) परमाणि दूरस्थानि (चित्) अपि (रजांसि) स्थानानि (आ) (तु) हेतौ (प्र) (याहि) गच्छ (हरिवः) प्रशस्तौ हरी विद्येते यस्य तत्सम्बुद्धौ (हरिभ्याम्) धारणाकर्षणवेगगुणैर्युक्ताभ्यां तुरङ्गाभ्यां जलाऽग्निभ्यां वा (स्थिराय) (वृष्णे) सुखसेचकाय पदार्थाय (सवना) प्रातःसवनादीनि कर्माणि (कृता) कृतानि (इमा) इमानि (युक्ताः) एकीभूताः (ग्रावाणः) गर्जनाकर्त्तारौ मेघाः। ग्रावेति मेघनामसु पठितम्॥ (निघं॰१।१०) (समिधाने) समिध्यमाने। अत्र यको लुक्। (अग्नौ)॥१९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो! यथा पावकेनोत्पादिता वर्षिता मेघाः पृथिव्याः समीपे भवन्त्याकर्षणेन दूरमपि गच्छन्ति तथाऽग्न्यादियानैर्गमने कृते कोऽपि देशो दूरे न भवति। एवं पुरुषार्थं कृत्वाऽलमैश्वर्याणि जनयत॥१९॥
Subject
पुनः सभाध्यक्षः किं कुर्य्यादित्याह॥
Anvaya
हे हरिवो राजन्! यथा समिधानेऽग्नौ इमा सवना कृता तु ग्रावाणो युक्ता भूत्वाऽऽगच्छन्ति तथा स्थिराय वृष्णे हरिभ्यामाप्रयाहि। एवं कृते परमा चिद् रजांसि ते दूरे न भवन्ति॥१९॥