Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 18

58 Mantra
34/18
Devata- इन्द्रो देवता Rishi- देवश्रवा देववातश्च भारतावृषी Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा॑यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रया॑सि।तिति॑क्षन्तेऽअ॒भिश॑स्तिं॒ जना॑ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः॥१८॥

इ॒च्छन्ति॑। त्वा॒। सो॒म्यासः॑। सखा॑यः। सु॒न्वन्ति॑। सोम॑म्। दध॑ति। प्रया॑सि ॥ तिति॑क्षन्ते॑। अ॒भिश॑स्ति॒मित्य॒भिऽश॑स्तिम्। जना॑नाम्। इन्द्र॑। त्वत्। आ। कः। च॒न। हि। प्र॒के॒त इति॑ प्रऽके॒तः ॥१८ ॥

Mantra without Swara
इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमन्दधति प्रयाँसि । तितिक्षन्तेऽअभिशस्तिञ्जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥

इच्छन्ति। त्वा। सोम्यासः। सखायः। सुन्वन्ति। सोमम्। दधति। प्रयासि॥ तितिक्षन्ते। अभिशस्तिमित्यभिऽशस्तिम्। जनानाम्। इन्द्र। त्वत्। आ। कः। चन। हि। प्रकेत इति प्रऽकेतः॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इच्छन्ति) (त्वा) त्वाम् (सोम्यासः) सोमेष्वैश्वर्यादिषु साधवः (सखायः) सुहृदः सन्तः (सुन्वन्ति) निष्पादयन्ति (सोमम्) ऐश्वर्यादिकम् (दधति) धरन्ति (प्रयांसि) कमनीयानि विज्ञानादीनि (तितिक्षन्ते) सहन्ते (अभिशस्तिम्) दुर्वचनवादम् (जनानाम्) मनुष्याणाम् (इन्द्र) राजन्! (त्वत्) तव सकाशात् (आ) समन्तात् (कः) (चन) अपि (हि) यतः (प्रकेतः) प्रकृष्टा केता प्रज्ञा यस्य सः॥१८॥
Essence
ये मनुष्या इह निन्दास्तुतिहानिलाभादीन् तितिक्षवः पुरुषार्थिनः सर्वैः सह मैत्रीमाचरन्त आप्ताः स्युस्ते सर्वैः सेवनीयाः सत्कर्त्तव्याश्च, त एव सर्वेषामध्यापका उपदेष्टारश्च स्युः॥१८॥
Subject
अथाप्तलक्षणमाह॥
Anvaya
हे इन्द्र! ये सोम्यासः सखायः सोमं सुन्वन्ति प्रयांसि दधति जनानामभिशस्तिमा तितिक्षन्ते च। तांस्त्वं सततं सत्कुरु, हि यतस्त्वत् प्रकेतः कश्चन नास्ति, तस्मात् सर्वे त्वा त्वामिच्छन्ति॥१८॥