Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 17

58 Mantra
34/17
Devata- इन्द्रो देवता Rishi- नोधा ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यꣳ शवसा॒नाय॒ साम॑।येना॑ नः॒ पूर्वे॑ पि॒तरः॑ पद॒ज्ञाऽअर्च॑न्तो॒ऽअङ्गिरसो॒ गाऽअवि॑न्दन्॥१७॥

प्र। वः॒। म॒हे। महि॑। नमः॑। भ॒र॒ध्व॒म्। आ॒ङ्गू॒ष्य᳖म्। श॒व॒सा॒नाय॑। साम॑ ॥ येन॑। नः॒। पूर्वे॑। पि॒तरः॑। प॒द॒ज्ञा इति॑ पद॒ऽज्ञाः। अर्च॑न्तः। अङ्गि॑रसः। गाः। अवि॑न्दन् ॥१७ ॥

Mantra without Swara
प्र वो महे महि नमो भरध्वमाङ्गूष्यँ शवसानाय साम । येना नः पूर्वे पितरः पदज्ञाऽअर्चन्तो अङ्गिरसो गाऽअविन्दन् ॥

प्र। वः। महे। महि। नमः। भरध्वम्। आङ्गूष्यम्। शवसानाय। साम॥ येन। नः। पूर्वे। पितरः। पदज्ञा इति पदऽज्ञाः। अर्चन्तः। अङ्गिरसः। गाः। अविन्दन्॥१७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(प्र) (वः) युष्मभ्यम् (महे) महते (महि) महत्सकारार्थम् (नमः) सत्कर्मान्नं वा (भरध्वम्) धरत (आङ्गूष्यम्) आङ्गूषाय सत्काराय बलाय वा हितम् (शवसानाय) ब्रह्मचर्य्यसुशिक्षाभ्यां शरीरात्मबलयुक्ताय (साम) सामवेदम् (येन) अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (नः) अस्माकमस्मान् वा (पूर्वे) पूर्वजाः (पितरः) पालका ज्ञानिनः (पदज्ञाः) ये पदं ज्ञातव्यं प्रापणीयमात्मस्वरूपं जानन्ति ते (अर्चन्तः) सत्क्रियां कुर्वन्तः (अङ्गिरसः) सर्वस्याः सृष्टेर्विद्याङ्गविदः (गाः) सुशिक्षिता वाचः (अविन्दन्) लम्भयेरन्॥१७॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! ये विद्वांसो युष्मान् विद्यासुशिक्षाभ्यां विपश्चितो धार्मिकान् कुर्युस्तानेव पूर्वाऽधीतविद्यान् पितॄन् विजानीत॥१७॥
Subject
अथ के पितरः सन्तीत्याह॥
Anvaya
हे मनुष्याः! यथा पदज्ञा नोऽस्मानर्चन्तोऽङ्गिरस पूर्वे नः पितरो येन महे शवसानाय वश्चाऽऽङ्गूष्यं साम गाश्चाविन्दन् तेन तेभ्यो यूयं महि नमः प्रभरध्वम्॥१७॥