Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 14

58 Mantra
34/14
Devata- अग्निर्देवता Rishi- देवश्रवदेववातौ भारतावृषी Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्त्स॒द्यः प्रवी॑ता॒ वृष॑णं जजान।अ॒रु॒षस्तू॑पो॒ रुश॑दस्य॒ पाज॒ऽइडा॑यास्पु॒त्रो व॒युने॑ऽजनिष्ट॥१४॥

उ॒त्ता॒नाया॑म्। अव॑। भ॒र॒। चि॒कि॒त्वान्। स॒द्यः। प्रवी॑तेति॒ प्रऽवी॑ता। वृष॑णम्। ज॒जा॒न॒ ॥ अ॒रु॒षस्तू॑प॒ इत्य॑रु॒षऽस्तू॑पः। रुश॑त्। अ॒स्य॒। पाजः॑। इडा॑याः। पु॒त्रः। व॒युने॑। अ॒ज॒नि॒ष्ट॒ ॥१४ ॥

Mantra without Swara
उत्तानायामव भरा चिकित्वान्त्सद्यः प्रवीता वृषणञ्जजान । अरुषस्तूपो रुशदस्य पाजऽइडायास्पुत्रो वयुने जनिष्ट ॥

उत्तानायाम्। अव। भर। चिकित्वान्। सद्यः। प्रवीतेति प्रऽवीता। वृषणम्। जजान॥ अरुषस्तूप इत्यरुषऽस्तूपः। रुशत्। अस्य। पाजः। इडायाः। पुत्रः। वयुने। अजनिष्ट॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्तानायाम्) उत्कृष्टतया विस्तीर्णायां भूमावन्तरिक्षे वा (अव) अर्वाचीने (भर)। अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (चिकित्वान्) ज्ञानवान् (सद्यः) (प्रवीता) कमिता (वृषणम्) वृष्टिकरं यज्ञम् (जजान) जनयते। अत्रान्तर्गतो णिच् प्रत्ययः। (अरुषस्तूपः) योऽरुषानहिंसकान् उच्छाययति सः (रुशत्) सुरूपम् (अस्य) (पाजः) बलम् (इडायाः) प्रशंसितायाः (पुत्रः) वयुने) विज्ञाने (अजनिष्ट) जायते॥१४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यदि मनुष्याः अस्यां सृष्टौ ब्रह्मचर्यादिना कुमारान् कुमारींश्च द्विजान् सम्पादयेयुस्तर्ह्येते सद्यो विद्वांसः स्युः॥१४॥
Subject
पुनर्विद्वान् किं कुर्य्यादित्याह॥
Anvaya
हे विद्वँस्त्वं यथा चिकित्वान् प्रवीता विद्वानुत्तानायां वृषणं जजानाऽरुषस्तूप इडायाः पुत्रो वयुनेऽजनिष्टाऽस्य रुशत्पाजश्चाऽजनिष्ट तथा सद्योऽवभर॥१४॥