Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 34 / Mantra 13

58 Mantra
34/13
Devata- अग्निर्देवता Rishi- हिरण्यस्तूप आङ्गिरस ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वं नो॑ऽअग्ने॒ तव॑ देव पा॒युभि॑र्म॒घोनो॑ रक्ष त॒न्वश्च वन्द्य।त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा॑म॒स्यनि॑मेष॒ꣳ रक्ष॑माण॒स्तव॑ व्र॒ते॥१३॥

त्वम्। नः॒। अ॒ग्ने॒। तव॑। दे॒व॒। पा॒युभि॒रिति॑ पा॒युऽभिः॑। म॒घोनः॑। र॒क्ष॒। त॒न्वः᳖। च॒। व॒न्द्य॒ ॥ त्रा॒ता। तो॒कस्य॑। तन॑ये॒ गवा॑म्। अ॒सि॒। अनि॑मेष॒मित्यनि॑मेषम्। रक्ष॑माणः॒। तव॑। व्र॒ते ॥१३ ॥

Mantra without Swara
त्वन्नोऽअग्ने तवे देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य । त्राता तोकस्य तनये गवामस्यनिमेषँ रक्षणस्तव व्रते ॥

त्वम्। नः। अग्ने। तव। देव। पायुभिरिति पायुऽभिः। मघोनः। रक्ष। तन्वः। च। वन्द्य॥ त्राता। तोकस्य। तनये गवाम्। असि। अनिमेषमित्यनिमेषम्। रक्षमाणः। तव। व्रते॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (नः) अस्माकम् (अग्ने) राजन्नीश्वर वा (तव) (देव) दिव्यगुणकर्मस्वभाव (पायुभिः) रक्षादिभिः (मघोनः) बहुधनयुक्तान् (रक्ष) (तन्वः) शरीराणि (च) (वन्द्य) वन्दितुं स्तोतुं योग्य (त्राता) रक्षिता (तोकस्य) अपत्यस्य (तनये) पौत्रस्य। अत्र विभक्तिव्यत्ययः। (गवाम्) धेन्वादीनाम् (असि) (अनिमेषम्) निरन्तरम् (रक्षमाणः) (तव) (व्रते) सुनियमे॥१३॥
Essence
अत्र श्लेषालङ्कारः। य ईश्वरगुणकर्मस्वभावाज्ञानुकूलत्वे वर्त्तन्ते, येषामीश्वरो विद्वांसश्च सततं रक्षकाः सन्ति, ते श्रिया दीर्घायुषा प्रजाभिश्च रहिता कदाचिन्न भवन्ति॥१३॥
Subject
राजेश्वरौ कथं सेवनीयावित्याह॥
Anvaya
हे अग्ने! देव तव व्रते वर्त्तमानान् मघोनोऽस्मान् तव पायुभिस्त्वं रक्ष, नस्तन्वश्च रक्ष। हे वन्द्य! यतस्त्वमनिमेषं रक्षमाणस्तोकस्य तनये गवाञ्च त्रातासि, तस्मादस्माभिर्नित्यं सत्कर्त्तव्य उपासनीयश्चासि॥१३॥